SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २०६ चद्रप्राप्तिसूत्र दक्षिणार्धे षट् च उत्तरार्धे पूर्वोक्तजम्बूद्वीपक्रमेणैव चारं चरन्ति । एते द्वादशापि सूर्याः जम्बूद्वीपलवणसमुद्रगतसूर्याणां समश्रेणिप्रतिबद्धास्तेनैव क्रमेण चारं चरन्ति । एषामुदयास्तविधिः जम्बूद्वीपगतसूर्यवदेव विज्ञेयः । दिवसरात्रिप्रकारोऽपि जम्बूद्वीपवदेवावसेयः। उत्सर्पिण्यवसर्पिणीपर्यन्तं सर्वोऽपि प्रकारो जम्बूद्वीपवदेव भणितव्यः । आलापकाः स्वयं करणीया इति । कालोदधिसमुद्रस्यापि वक्तव्यता लवणसमुद्रवदेव पठितव्या, विशेषोऽत्रैतावान् यत् अत्र क्षेत्रविस्ताराधिक्यात् द्विचत्वारिंशत् सूर्याः सन्ति, तेषु एकविंशतिः सूर्या दक्षिणविभागे, एक विंशतिरेव उत्तरविभागे चार चरन्ति । एतेऽपि जम्बूद्वीपलवणसमुद्रधातकीखण्डगतसूर्याणां समश्रेणिप्रतिबद्धास्तेनैव क्रमेण स्वस्वक्षेत्रं प्रकाशयन्ति । दिवसरात्र्यादिप्रकारः पूर्ववदेव विज्ञातव्य इति । अथाभ्यन्तरपुष्करार्धविषये कथ्यते-अत्रापि सर्वा वक्तव्यता जम्बूद्वीपवदेव विचारणीया, विशेषस्त्वयम्-यदत्र द्वा सप्ततिः सूर्याः सन्ति । तेषु पूर्ववदेव षट्त्रिंशत् सूर्या दक्षिणे षट्रे त्रिंशदेव उत्तरे प्रकाशयन्ति । अन्यत्सर्वे दिवसरात्रिप्रकारः, तथा वर्षाऋतु समयादारभ्योत्सर्पिण्यवसर्पिणी वक्तव्यतापर्यन्तं सर्वोऽपि विचारश्चेत्यादि जम्बूद्वीपवक्तव्यतासदृशमेव भणितव्यम् । एवं क्रमेण सार्धतृतीयद्वीपवक्तव्यता भवति, तत्र द्वात्रिंशदधिकैकशत (१३२) संख्यकाः सूर्याः निरन्तरं चारं : चरन्ति । सर्वत्र जबूद्वीपादारभ्य साधतृतीयद्वीपपर्यन्तं यत्र यावन्तः सूर्यास्तत्र तावन्त एव चन्द्रा भवन्तीति विज्ञेयमिति ॥सू०३॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहुच्छत्रपति कोल्हापुरराजप्रदत्त “जैनशास्त्राचार्य" पदभूषित-कोल्हापुर राजगुरु बालब्रह्मचारि-जैनशास्त्राचार्य-जैनधर्मदिवाकर श्रीघासीलालवति-विरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिका ख्यायां व्याख्यायाम् अष्टमम् प्राभृतं समाप्तम् ॥५॥ ।। श्रोरस्तु ॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy