________________
२०८
चन्द्रप्रक्षप्तिस्त्रे अस्त्येके नो संतप्यन्ते (ये) अस्त्येके संतप्यमानाः (ते) तदनन्तरान् बाह्यान् पुद्गलान् संतापयन्ति, अस्त्येके असंतप्यमानाः तदनन्तरान् बाह्यान् पुद्गलान् नो संतापयन्तीति, पतत् खलु तत् समितं तापक्षेत्रम् एके एवमाहुः ।।
वयं पुनरेवं वदामः-तावत् या इमाः चन्द्रसूर्ययोर्देवयोः विमानेभ्यः लेश्याः बहिः अभिनिस्सृताः ता प्रतापयन्ति, पतासां खलु लेश्यानाम् अन्तरेषु अन्यतराः छिन्नलेश्याः समूर्छन्ति, ततः खलु ताः छिन्नलेश्याः संमूछिताः सत्यः तदनन्तरान् बाह्यान् पुद्गलान् संतापयन्तीति एतत् खलु तत् समितं तापक्षेत्रम् ॥॥सू०१॥
व्याख्या- 'ता' तावत 'कइकट' कतिकाष्ठं कति कतिप्रमाणा काष्ठा प्रकर्षों यस्याः सा कतिकाष्टा तां किंप्रमाणामित्यर्थः 'ते' तवमते 'मूरिए' सूर्यः पोरिसिं पुरुषे भवा पौरुषी तां 'छायं' छायां पुरुषसम्बन्धिनी छायां 'निव्वत्तेइ' निर्वर्त्तयति करोति, अत्रविषये भवता किम् 'आहियं' आख्यातम् ? 'ति वएज्जा' इति वदेत् वदतु कथयतु हे भगवन् ! इति गौतमस्य प्रश्नः । अत्र भगवान् पूर्वमेतद्विषये यावत्यः प्रतिपत्तयो वर्तन्ते ता दर्शयति-'तत्थ खलु' इत्यादि ।
'तत्थ' तत्र पौरुषी छायाप्रमाणविषये खलु तापक्षेत्रस्वरूपविषयाः 'इमाओ' इमाः वक्ष्यमाणाः 'तिण्णी' तिम्रः' 'पडीवत्तीओ' प्रतिपत्तयः 'पण्णत्ता' प्रज्ञप्ताः, 'तं जहा तद्यथा-'तत्थ' तत्र त्रिषु प्रतिपत्तिवादिषु मध्ये 'एगे' एके प्रथमाः एवं' एवम्-वक्ष्यमाणप्रकारेण 'आईसु' आहुः कथयन्ति । किं कथयन्तीत्याह—'ता जे णं' इत्यादि । 'ता' तावत् 'जे णं' ये खलु पोग्गला पुद्गलाः ' 'सूरियस्स लेस्सं' सूर्यस्य लेश्यां 'फूसति' स्पृशन्ति 'ते णं पोग्गला' ते खलु पुद्गलाः 'संतप्पंति' संतप्यन्ते, अत्र कर्मकर्तरि प्रयोगः, 'ते णं पोग्गला' ते खल पुद्गलाः सतप्पमाणा' संतप्यमानाः सूर्यलेश्यातापेन संतप्ता भवन्तः सन्तः 'तयाणंतराई तदन्तरान् संतप्यमानपुद्गलानामव्यवधानाऽग्रे स्थितान् ‘बाहिराई' बाह्यान् तत्प्रदेशाबहिःस्थितान् 'पोग्गलाई' पुद्गलान् सूत्रे नपुंसंकल्बमार्षत्वात् , 'संतावेंतित्ति' सन्तापयन्ति, इति, अत्र इति शब्दः प्रस्तुतवाक्यपरिसमाप्तिसूचकः 'एस गं' एतत् एवं स्वरूपं खलु 'से' तस्य सूर्यस्य 'समिए' समितं संपन्न 'तावखेत्ते' तापक्षेत्रमस्ति । अत्र पुंस्त्वं प्राकृतत्वात् । उपसंहारः ‘एगे' एके प्रथमाः ‘एवं' एवं पूर्वोक्तप्रकारेण 'आहेसु' आहुः कथयन्ति । इति प्रथमा प्रतिपत्तिः ॥१॥
___ अथ द्वितीयां प्रतिपत्तिमाह-'एगे पुण' इत्यादि ‘एगे पुण' एके द्वितीया पुनः ‘एवं एवं वक्ष्यमाणप्रकारेण 'आईसु' आहुः कथयन्ति- 'ता' तावत् 'जे णं पुग्गला' ये खलु पुद्. गलाः 'मूरियस्स लेस्सं' सूर्यस्य लेश्यां 'फुसंति' स्पृशन्ति ते ण पोग्गला' ते खलु पुद्गलाः 'नो संतप्पति' नो संतप्यन्ते संतप्ता न भवन्ति 'ते ण पोग्गला' ते खलु पुद्गलाः 'असंतप्पमाणा' असंतप्यमानाः नसंतप्ता भवन्तः सन्तः 'तयाणंतराई' तदनन्तरान् अव्यवधानेन तद