SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २०२ चन्द्रप्राप्तिस्त्रे एवं लवणसमुद्रे, धातकीखण्डे, कालोदे, तावत् अभ्यन्तरपुष्करार्धेऽपि स्यौं उत्तर ग्दच्छतः । प्राचीदक्षिणस्यामागच्छतः । एवं जम्बूद्वीपवक्तव्यता भणितव्या यावत् उत्सर्पिण्यपि ॥ सू० ३ ॥ चन्द्रप्रक्षप्त्याम् अष्टमं प्राभृतं समाप्तम् ॥ ८ ॥ व्याख्या- 'ता' तावत् 'जया णं' यदा खल 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'दाहिगड्ढे' दक्षिणार्धे 'वासाणं' वर्षाणां वर्षाकालस्य सूत्रे बहुवचनमार्णत्वात् 'पढमे समए पडिवज्जई' प्रथमः समयः प्रारम्भसमयः प्रतिपद्यते आरब्धो भवति 'तया णं' तदा खलु 'उत्तरढे' वि उत्तरार्धेऽपि 'वासाणं पढमे समए पडिवज्जई' वर्षाणां वर्षाकालस्य मासचतुष्टरूपस्य प्रथमः समयः प्रतिपद्यते दक्षिणोत्तरयोः समकालमेव द्वयोः सूर्ययोश्चारचरणात् । 'तया णं' तदा खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'मन्दरस्स पव्वयस्स' मन्दरस्य पर्वतस्य पुरथिमेणं पच्चत्थिमेणं' पौरस्त्ये पाश्चात्ये पूर्वस्यां पश्चिमायां च दिशि 'अणंतरपुराकडे' अनन्तरपुराकृते अनन्तरं दक्षिणोत्तरयोर्वर्षाणां प्रथमसमयात् द्वितीये पुराकृते अग्रे स्थिते 'कालसमयंसि' कालसमये, समयस्तु अनेकार्थवाचकः-'समयः शपथाचारकालसिद्धान्तसंविदः' इति वचनात् , ततस्तद्वयवच्छेदार्थ कालेति विशेषणं दत्तम् , तेन कालपमये काल रूपे समये इत्यर्थः 'वासाणं पढमे समए पडिवज्जई' वर्षाणां प्रथमः समयः प्रतिपद्यते 'तया गं' तदा खलु 'जवुद्दीवे दीवे जम्बूद्वीपे द्वीपे 'मंदरस्स पव्वयस्स' मन्दरस्य पर्वतस्य 'उत्तरेणं दाहिणेणं' उत्तरे दक्षिणे च 'अणंतरपच्छाकडे' अनन्तरपश्चात्कृते पश्चाद्गतानन्तरसमये पश्चानुपूर्व्या द्वितीये तस्मात् पूर्वस्मिन्ननन्तरे ‘कालसमयंसि' कालसमये 'वासाण पढमे समए' वर्षाणां प्रथमः समयः 'पडिपुण्णे भवई' प्रतिपूर्णो भवति । दक्षिणोत्तरयोः वर्षाणां प्रथमसमयसमाप्यनन्तरमेव पूर्वपश्चिमयोः वर्षाणां प्रथमसमयस्य प्रारम्भन्यायात् । यदा दक्षिणोत्तरयोः वर्षाकालसमयस्य पूर्णानन्तरमेव पूर्वपश्चिमयोः सूर्यगतिसद्भावात् एकस्य सूर्यस्य दक्षिणभागात् पश्चिमे भागे गतिर्भवति, द्वितीयस्य उत्तरभागात् पूर्वे भागे गतिर्भवति, ततः समीचीनमेव पूर्वकथनमिति ।१। 'जहा समए' यथा समयः यथा समयमाश्रित्य आलापकप्रकारः प्रदर्शितः ‘एवं' एवम्-अनेनैवालापकप्रकारेण शेषा नव 'आवलिया' आवलिका २, 'आणपाण' आनप्राणौ श्वासोच्छास समयः ३, 'थोवे स्तोकः ४ लवे' लवः ५ 'मुहुत्ते' मुहूर्तः ६, 'अहोरत्ते' अहोरात्रः ७, 'पक्खे' पक्षः ८, 'मासे' मासः ९, 'ऊऊ' ऋतुः १० 'एए' एते पूर्वोक्ताः 'दस' दश समयमवधीकृत्य दश संख्यका 'आलावगा' आलापकाः 'वासाणं' वर्षाणां वर्षाकालस्य 'भाणियव्वा' भणितव्याः आलापकाः करणीया इत्यर्थः, आलापक प्रकारश्च स्वयमूहनीयः ।।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy