SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिप्रकाशिका टीका प्रा०८ सू०३ दक्षिणार्धात्तरार्धे वर्षाकालादिसमयनिरूपणम् २०३ अथ वर्षाकालं प्रतिपाद्य हेमन्तकालं प्रदर्शयितुमाह-'ता जया णं हेमंताण' इत्यादि । 'ता' तावत् 'जयाणं' यदा खल 'जवुदीवे दोवे' जम्बूद्वीपे द्वीपे 'दाहिणड्ढे' दक्षिणार्धे 'हेमंताण' हेमन्तानां हेमन्तकालस्य मासचतुष्टयरूपस्य 'पढमे समए' प्रथमः समयः 'पडिवज्जई' प्रतिपद्यते प्रविष्टो भवति-'तया णं' तदा खलु 'उत्तरड्ढे वि' उत्तरार्धेऽपि 'हेमंताणं पढमे समए पडिवज्जई' हेमन्तानां प्रथमः समयः प्रतिपद्यते, 'जया णं' या खलु जवुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'मंदरस्स पव्वयस्स' मन्दरस्य पर्वतस्य 'पुरथिमेणं पच्चथिमेणं' पौरस्त्ये पाश्चात्ये पूर्वस्यां पश्चिमायां च दिशि 'अणंतरपुराकडे' अनन्तरपुराकृते तदनन्तरे दक्षिणोत्तरहेमन्तप्रथमसमयादनन्तरं द्वितीये पूर्वानुपूर्व्या अग्रे स्थिते 'कालसमयंसि' कालसमये कालरूपे समये 'हेमंताणां' हेमन्तानाम् 'पढमे समए' प्रथमः समयः 'पडिवज्जइ' प्रतिपद्यते तदा दक्षिणोत्तरयोरनन्तरपश्चात्कृत्ते पश्चानुपूर्त्या पूर्वस्मिन् कालसमये हेमन्तानां प्रथमः समयः परिपूर्णो भवतीति सुगममेव । 'एयस्स वि' एतस्यापि हेमन्तकालस्यापि 'दसआलावगा' दश-आलपकाः 'जाव ऊऊ' यावत् ऋतुम् समयादारभ्य ऋतुपर्यन्ताः 'भाणियव्वा' भणितव्याः ॥५॥ अथ सूत्रकारः ग्रीष्मकालं प्रदर्शयितुमाह-'ताजया णं गिम्हाणं' इत्यादि । 'ता' तावत् 'जया णं' यदा खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'दाहिणड्ढे' दक्षिणार्धे 'गिम्हाणं पढमे समए पडिवज्जइ' ग्रीष्मणां ग्रीष्मकालस्य चतुर्मासरूपस्य प्रथमः समयः प्रतिपद्यते 'तया णं' तदा खलं 'उत्तरड्ढे बि' उत्तरार्धेऽपि 'गिम्हाणं पढमे समए पडिवज्जई' ग्रीष्माणां ग्रीष्मकालस्य चतुर्मासरूपस्य प्रथमः समयः प्रतिपद्यते । 'ता' तावत् 'जया णं' यदा खलु 'उत्तरदाहिगड्ढे' उत्तरदक्षिणार्धे उत्तरार्धे दक्षिणार्धे च 'गिम्हाणं पढमे समए पडिवज्जइ' प्रोष्माणां प्रथमः समयः प्रतिपद्यते 'तया णं' तदा खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'पुरथिमेणं पच्चत्थिमेणं पौरस्त्ये पाश्चात्ये च 'अणंतरपुराकडे' अनन्तरपुराकृते उत्तरदक्षिणगतग्रीष्मकालस्य द्वितीये 'कालसमयंसि' कालसमये 'गिम्हाणं पढमे समए' ग्रीष्माणां प्रथमः समयः 'पडिवज्जई' प्रतिपद्यते, इत्यादि 'एयस्स वि' एतस्यापि ग्रीष्मकालस्यापि 'दस आलावगा' दशालापकाः 'जाव ऊऊ' यावत् ऋतुम् समयादारभ्य ऋतुपर्यन्ताः 'भाणियव्या' भणितव्याः पूर्वोक्तालापकवत् करणीयाः ।। पूर्व वर्षाहेमन्तग्रीष्मरूपऋतुत्रयस्य वक्तव्यता प्रतिपाद्य साम्प्रतम्-अयनादि वक्तव्यता माह-'ता जया णं अयणे' इत्यादि । 'ता' तावत् 'जया णं' यदा खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'दाहिणढे' दक्षिणार्धे 'पढमे अयणे' प्रथमम् अयनम् 'पडिवज्जइ' प्रतिपद्यते 'तया गं'
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy