SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्तिप्रकाशिका टीका प्रा०-८ सू०३ दक्षिणार्धोत्तरार्धे वर्षाकालादिलमयनिरूपणम् २०१ एवं लवणसमुद्दे धायईसंडे कालोए ता अभितरपुक्खरद्वेण वि सूरिया उत्तरपाई - मुगच्छति पाईणदाहिणं आगच्छंति । एवं जंबुद्दीववत्तन्वया भाणियन्वा जाव उस्सप्पिणी वि ॥ सू० ३ ॥ चंदपन्नत्तीए अट्टमं पाहुडे समत्तं ॥८॥ छाया - तावत् यदा खलु जम्बूद्वीपे द्वीपे दक्षिणार्धे वर्षाणां प्रथमः समयः प्रतिपद्यते तदा खलु उत्तरार्धेऽपि वर्षाणां प्रथमः समयः प्रतिपद्यते । यदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्ये पाश्चात्ये अनन्तरपुराकृते कालसमये वर्षार्णां प्रथमः समयः प्रतिपद्यते तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरे दक्षिणे अनन्तरपश्चात्कृते कालसमये वर्षाणां प्रथमः समयः प्रतिपूर्णो भवति । यथा समयः एवम् - आवलिका, आनप्राणौ, स्तोकः, लवः, मूहूर्तः, अहोरात्रः, पक्षः, मासः, ऋतुः, एते दश आलापका वर्षाणां भणितव्याः |४| तावत् यदा खलु जम्बूद्वीपे द्वीपे दक्षिणार्धे हेमन्तानां प्रथमः समयः प्रतिपद्यते तदा खलु उत्तरार्धेऽपि हेमन्तानां प्रथमः समयः प्रतिपद्यते, तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्ये पाश्चात्ये अनन्तर पुराकृते कालसमये हेमन्तानां प्रथमः समयः प्रतिपद्यते एतस्यापि दश आलापका यावत् ऋतुम् भणितव्याः | ५| तावत् यदा खलु जम्बूद्वीपे द्वीपे दक्षिणार्धे ग्रीष्माणां प्रथमः समयः प्रतिपद्यते तदा खलु उत्तराधेऽपि ग्रीष्माणां प्रथमः समयः प्रतिपद्यते । तावत् यदा खल उत्तरदक्षिणार्धे ग्रीष्माणां प्रथमः समयः प्रतिपद्यते तदा खलु जम्बूद्वीपे द्वीपे पौरस्त्ये पाश्चात्ये अनन्तरपुराकृते कालसमये ग्रीष्माणां प्रथमः समयः प्रतिपद्यते । पतस्यापि दश आलापका यावत् ऋतुम् भणितव्याः ||६|| तावत् यदा खलु जम्बूद्वीपे द्वोपे दक्षिणार्धे प्रथमम् अयनं प्रतिपद्यते तदा खल उत्तराsu प्रथमम् अयनं प्रतिपद्यते । यदा खल उत्तरार्धे प्रथमम् अयनं प्रतिपद्यते तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्ये पाश्चात्ये अनन्तरपुराकृते कालसमये प्रथमम् अयनं प्रतिपद्यते । तावत् यदा खउ जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्ये प्रथमम् अयनं प्रतिपद्यते तदा खलु पाश्चात्येपि प्रथमम् अयनं प्रतिपद्यते । तावत् यदा खल पाश्चत्येप्रथम् अयनं प्रतिपद्यते । तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरे दक्षिणे अनन्तरपश्चात्कृते कालसमये प्रथम् अयनं प्रतिपूर्ण भवति । एवं संवत्सरः, युगम् वर्ष शतम् वर्षसहस्रम् वर्षशतसहस्रम् पूर्वाङ्ग, पूर्वम्, त्रुटिताङ्गं त्रुटितम्, अटटाङ्ग, अटटम्, अथवाङ्ग, अववम् हुहुका, हुहुकम्, उत्पलानं, उत्पलम्, पद्माङ्ग, पद्मम् नलिनाङ्ग, नलिनम् अच्छनिकुराङ्ग अच्छनिकुरम्, अयुताङ्गम्, अयुतम्, नयुताङ्ग नयुतम्, चूलिकाङ्ग चूलिका, शीर्षप्रहेलिकाङ्ग शीर्षप्रहेलिका पल्योपमं, सागरोपमम् । तावत् यदा खल जम्बूद्वीपे द्वीपे दक्षिणाधें प्रथमे समये उत्सर्पिणी प्रतिपद्यते तदा खलु उत्तरार्धेऽपि प्रथमे समये उत्सर्पिणी प्रतिपद्यते यदा खलु उत्तरार्धे प्रथमे समये उत्सर्पिणी प्रतिपद्यते तदा खल जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्ये पाश्चात्ये उत्सर्पिणी नैवास्ति अवस्थितस्तत्र कालः प्रशप्तः श्रमणायुष्मन् १७ " २६
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy