________________
चन्द्रप्रज्ञप्तिसूत्रे मुहूत्तों दिवसो भवति 'तया णं' तदा खलु 'उत्तरड्ढे वि' उत्तरार्धेऽपि 'जहण्णए' जघन्यकः 'दुवालसमुहुत्ते दिवसे भवई' द्वादशमुहूत्तों दिवसो भवति । 'ता' तावत् 'जया गं' यदा खलु उत्तरड्ढे' उत्तरार्धे उपलक्षणाद्दक्षिणार्धं च 'जहण्णए' जघन्यकः सर्वलघुः 'दुवालासमुहुत्ते दिबसे भवई' द्वादशमुहूर्तो दिवसो भवति 'तया णं' तदा खल 'जंबुद्दीवे दीवे' जम्बुद्वीपे द्वीपे 'मंदरस्स पव्वयस्स' मन्दरस्य पर्वतस्य 'पुरथिमेणं पच्चत्थिमेणं' पौरस्त्ये पाश्चात्ये पूर्वस्यां पश्चिमायां च दिशि 'उक्कोसिया' उत्कर्षिका सर्वोत्कृष्टा 'अट्ठारसमुहुत्ता राई भवई' अष्टादशमुहूर्ता रात्रिर्भवति । 'ता' तावत् 'जया णं' यदा खलु जंबुद्दीवे दीवे' जम्बुद्वीपे द्वीपे 'मंदरस्स पव्वयस्स' मन्दरस्य पर्वतस्य 'पुरस्थिमेणं' पौरस्त्ये पूर्वस्यां दिशि 'जहण्णए' जघन्यकः सर्वलघुः दुवालसमुहुत्ते दिवसे भवई' द्वादशमुहूर्तो दिवसो भवति 'तया णं' तदा खलु 'पञ्चत्थिमेण वि' पाश्चात्येऽपि पश्चिमायां दिशायामपि 'जहण्णए' जघन्यकः सर्वलघुः 'दुवालसमुहुत्ते दिवसे भवई' द्वादशमुहूत्तों दिवसो भवति । 'जया णं' यदा खलु पच्चत्थिमेणं' पाश्चात्ये पश्चिमदिशि उपलक्षणात् पूर्वदिशि च 'जहण्णए' जघन्यकः 'दुवालसमुहुत्ते दिवसे भवइ' द्वादशमुहूत्र्तो दिवसो भवति । 'तया णं' तदा खलु 'जंबुद्दीवेदीवे' जम्बुद्वीपे द्वीपे 'मंदरस्स पव्वयस्स' मन्दरस्स पर्वतस्य 'उत्तरेणं दाहिणेणं' उत्तरे दक्षिणे 'उक्कोसिया' उत्कर्षिका सर्वोत्कृष्टा 'अट्ठारसमुहुत्ता राई भवई' अष्टादशमुहर्ता रात्रिर्भवति ॥३॥
अत्रायं निष्कर्षः-दो सूर्यौ जम्बुद्वीपे परस्परं प्रतिकूलदिशि संमुखं स्व स्व क्षेत्रे समकालं समानगत्या चारं चरतः, ततो दक्षिणोत्तरयोः सर्वाभ्यन्तरमण्डल चारसमये उभयत्र अष्टादशमुहूत्र्तो दिवसो भवेत् , सर्वबाह्यमण्डल चारसमये उभयत्र समकालं द्वादशमुहूर्तों दिवसो भवेत् । यदा सूर्यौ दक्षिणोत्तरयोश्चारं चरतस्तदा पूर्वपश्चिमयोः रात्रिभवेत् , यदा पूर्वपश्चिमयोश्चार चरतस्तदा दक्षिणोत्तरयोः रात्रिभवेदिति सुज्ञातमेव । . यदा सूर्यौ दक्षिणोत्तरयोः सर्वाभ्यन्तरमण्डलमाश्रित्य चारं चरतस्तदोभयत्र समकालम् अष्टादशमुहूत्र्तो दिवसो भवति, पूर्वपश्चिमयोश्चोभयत्र समकालं द्वादशमुहूर्त्ता रात्रिभवेदिति प्रथमः प्रकारः ।१। यदा सूर्यो दक्षिणोत्तरयोः सर्वबाह्यमण्डलमाश्रित्य चारं चरतस्तदा तत्रो भयत्र समकालं द्वादशमुहूर्तो दिवसो भवति, पूर्वपश्चिमयोश्चाष्टादशमुहूर्ता रात्रिभवति, अहो. रात्रस्य त्रिंशन्मुहूर्तप्रमाणत्वात् । इति द्वितीयः प्रकारः ।२। यदा सूर्यो पूर्वपश्चिमयोंः सर्वाभ्यन्तरमण्डलमाश्रित्य चारं चरतस्तदा तत्रोभयत्र समकालम् अष्टादशमुहूर्तो दिवसो भवति, दक्षिणो. त्तरयोश्चोभयत्र द्वादशमुहूर्ता रात्रिर्भवतीति तृतीयः प्रकारः ।३। यदा सू? पूर्वपश्चिमयोः सर्व