SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटोका प्रा०८ सू०२ भगवताप्रदशितदिवसरात्रिपकारस्तन्मुहूर्त्तमानं च १९७ किंचित्प्रमाणस्य वा दिवसप्रमाणे यथा यथा न्यूनत्वं जायते तथा तथा रात्रिप्रमाणे एकैकमुहूर्तस्य किंचित्प्रमाणस्य वाऽधिकत्वं ज्ञातव्यम् । तथाहि यदा-'सत्तरसमुहुत्ते दिवसे' सप्तदश मुहूर्तो दिवसः तदा 'तेरसमुहुत्ता राई भवइ' त्रयोदशमुहूर्ता रात्रिर्भवति । यदा ‘सत्तरसमुहुत्ताणंतरे दिवसे' सप्तदशमुहूर्तानन्तरः सप्तदशमुहूर्तेभ्यः किंचिन्न्यूनो दिवसो भवति तदा 'साइरेगा. तेरसमुहुत्ता राई भवई' सातिरेका किंचिदधिका त्रयोदशमुहूर्त्ता रात्रिर्भवति । यदा ‘सोलसमुहुत्ते दिवसे' षोडशमुहूर्तो दिवसो भवति तदा 'चउद्दसमुहुत्ता राई भवई' चतुर्दशमुहूर्ता रात्रिर्भवति । यदा ‘सोलसमुहुत्ताणतरे दिवसे' षोडशमुहूर्तानन्तरः षोडशमुहूर्तेभ्यः किंचिम्यूनो दिवसो भवति तदा 'साइरेगा' सातिरेका किंचिदधिका 'चउडसमुहुत्ता राई भवई' चतुर्दशमुहर्ता रात्रिभवति । यदा 'पण्णरसमुहुत्ते दिवसे' पञ्चदशमुहूत्तों दिवसो भवति तदा 'पण्णरसमुहुत्ता राई भवई' पश्चदशमुइर्ता रात्रिर्भवति । अत्र पूर्व प्रथमप्राभृतस्य प्रथमे प्राभृतप्राभृते कथितम्-'नत्थि पण्णरसमुहुत्ते दिवसे नत्थि पण्णरसमुहुत्ता राई भवई' नास्ति परिपूर्णपञ्चदशमुहूर्तो दिवसो नास्ति परिपूर्णा पञ्चदशमुहूर्ता रात्रिर्भवतीति, अस्य कारणमपि गणितेन तत्र प्रदर्शितम् तत्रत्यमेतत्कथनं निश्चयनयमाश्रित्य कृनं वर्तते, अत्र व्यवहारनयमाश्रित्य 'पञ्चदशमुहूत्तों दिवसः पञ्चदशमुहूर्ता रात्रिः' इति कथितमतो न कोऽपि दोषः। दृश्यते हि लोके किञ्चिन्न्यूनाधिकशतसंख्यायाम् इदमेकं शतम्' इति व्यवहार इति । ___ प्रकृतमनुसरामः- यदा ‘पण्णरसमुहुत्ताणंतरे दिवसे' पञ्चदशमुहूर्त्तानन्तरो दिवसो भवति पञ्चदशमुहूर्तेभ्यः किञ्चिन्यूनो दिवसो भवति तदा 'साइरेगा' सातिरेका किञ्चिदधिका 'पण्णरसमुहुत्ता राई भवइ' पञ्चदशमुहूर्त्ता रात्रिर्भवति । यदा-'चउद्दसमुहूत्ते दिबसे' चतुदेशमुहूत्तों दिवसो भवति तदा सोलसमुहुत्ता राई भवइ' षोडशमुहूर्ता रात्रिर्भवति । यदा चउदेसमुहुत्ताणंतरे दिवसे' चतुर्दशमुहूर्त्तानन्तरः चतुर्दशमुहूर्तेभ्यः किञ्चिन्न्यूनो दिवसो भवति तदा 'साइरेगा' सातिरेका किञ्चिदधिका 'सोलसमुहुत्ता राई भवई' षोडशमुहूर्ता रात्रिर्भवति । यदा 'तेरसमुहुत्ते दिवसे' त्रयोदशमुहूर्तो दिवसो भवति तदा 'सत्तरसमुहुत्ता राई भवई' सप्तदशमुहूर्ता रात्रिर्भवति । यदा 'तेरसमुहुत्ताणंतरे दिवसे' त्रयोदशमुहूर्तानन्तरः त्रयोदशमुहूर्तेभ्यः किञ्चिन्यूनो दिवसो भवति तदा 'साइरेगा' सातिरेका किञ्चिदधिका 'सत्तरसमुहुत्ता राई भवई' सप्तदशमुहूर्ता रात्रिभवति । अथाने सूत्रकारः स्वयमालापकं प्रदर्शयति 'ता जया णं' इत्यादि । 'ता' तावत् 'जया णं' यदा खलु 'जंबुद्दीवे दीवे' जम्बुद्वीपे द्वीपे 'दाहिणड्डे' दक्षिणार्धे 'जहण्णए' जघन्यकः सर्वलघुः 'दुवालसमुहुत्ते दिवसे भवइ' द्वादश
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy