________________
१९६
चन्द्रप्राप्तिसूत्रे
समुहुत्ते दिवसे भवइ' अष्टादशमुहूर्त्ती दिवसो भवति 'तया णं' तदा खलु 'उत्तर देवि' उत्तराचेंऽपि ‘उक्कोसए' उत्कर्षक: 'अट्ठारसमुहुत्ते दिवसे भवइ' अष्टादशमुहूत्तों दिवसों भवति । द्वयोः सूर्ययोः परस्परं विपरीत समकालसन्मुखमण्डलचारित्वेन यदा एकः सूर्य दक्षिणा सर्वा भ्यन्तरमण्डले चारं चरति तदाऽपरोऽपि उत्तरार्धे सर्वाभ्यन्तरमण्डले चारं चरति तथा स्वाभा व्यात् ततो दक्षिणोत्तरयोरुभयत्र समानदिवसप्रमाणत्वं समीचीनमेवेति भावः । 'जया णं' यदा खलु ‘उत्तरड्ढे' उत्तरार्धे उपलक्षणात् दक्षिणार्धे च 'उक्कोसए अट्टारसमुहुत्ते दिवसे भव' उत्कर्षकः अष्टादशमुहूर्त्ता दिवसो भवति 'तया णं जंबुद्दीवे दीवे' तदा खलु जम्बूद्वीपे द्वीपे 'मंदरस्स पव्वयस्स' मन्दरस्य पर्वतस्य 'पुरत्थिमपच्चत्थिमेणं' पौरस्त्यपाश्चात्ये पूर्वस्यां पश्चिपायां च दिशि 'जहणिया' जयन्यिका सर्वलध्वी 'दुवालसमुहुत्ता राई भवर' द्वादशमुहूर्त्ता रात्रिर्भवति । सर्वाभ्यन्तरमण्डले चारं चरतोः द्वयोः सूर्ययोः सर्वत्रापि द्वादशमुहूर्त्ताया एव रात्रे - र्भावात् । यतो हि त्रिंशन्मुहूर्त्ताहोरात्र सत्त्वेऽष्टादशमुहूर्त्तास्तत्र दिवसभागे व्यतीता जाता तो द्वादशमुहूर्त्ता एव रात्रेः शेषास्तिष्ठेयुरिति । 'ता' तावत् 'जया णं' यदा खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'मंदरस्स पव्वयस्स' मन्दरस्य पर्वतस्य 'पुरत्थिमेणं' पौरस्त्ये पूर्वस्यां दिशि 'उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ' उत्कर्षकः अष्टादशमुहूर्त्ती दिवसो भवति 'तया णं' तदा खलु 'पच्चत्थिमेण वि पाश्चात्येऽपि पश्चिम दिशायामपि 'उक्कोसए अट्ठारससुहुत्ते दिवसे भवइ' उत्कर्षकः अष्टादशमुहूर्त्ता दिवसो भवति । द्वयो सूर्ययोः परस्परविपरीत संमुखमण्डल समकालचारित्वेन यदा पूर्वदिक्चारी सूर्यः सर्वाभ्यन्तरमण्डले चारं चरति तदाऽपरः पश्चिमदिक्चारी सूर्योऽपि सर्वाभ्यन्तरमण्डले चारं चरति तथा स्वाभाव्यात् ततः पूर्वपश्चिमयोः उभयत्रापि दिवसयोः समानप्रमाणत्वं भवत्येवेति भावः । ' जया णं' यदा खलु 'पच्चत्थिमेणं' पाश्चात्ये पश्चिमदिशायाम् उपलक्षणात् पूर्वस्यां दिशि च 'उक्कोसर' उत्कर्षकः 'अट्ठारसमुहुत्ते दिवसे भवइ' अष्टादश मुहूत्त दिवसो भवति 'तथा णं' तदा खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'मंदरस्स पव्वयस्स' मन्दरस्य पर्वतस्य 'उत्तरदाहिणेणं' उत्तरदक्षिणे उत्तरस्यां दक्षिणस्यां च दिशि 'जहण्णिया' जघन्यिका सर्वलध्वी 'दुवालसमुहुत्ता राई भवई' र्द्वादशमुहूर्त्ता रात्रिर्भवति । सूर्ययोः सर्वाभ्यन्तरमण्डलचारसमये रात्रे र्द्वादशमुहूर्त्ताया एवं सर्वत्र सद्भावात् त्रिंशन्मुहूर्त्ताहोरात्रप्रमाणेऽष्टादशमुहूर्त्तानां तत्र दिवसभागे व्यतीतत्वाच्चेति । ' एवं ' एवम् अनेनाभिलापप्रकारेणा सर्वत्र भावना करणीया । तत्र यदा 'अट्ठारस मुहुत्ताणंतरे' अष्टादश मुहूर्त्तानन्तरः अष्टादशमुहूर्त्तात् किश्चिन्न्यूनः 'दिवसे भवइ' दिवसो भवति तदा 'साइरेगा ' सातिरेका किञ्चिदधिका यदा दिवसे यावत्परिमितं न्यूनत्वं भवति तदा रात्रौ तावत्परिमितमेवाधिकत्वं भावनीयम् । ‘दुवालसमुहुत्ता राई भवर' द्वादशमुहूर्त्ता रात्रिर्भति । एवमेकैकमुहूर्त्तस्य