SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०८सू०२ भगवताप्रदर्शितदिवसरात्रिप्रकोरस्तन्मुहर्तमानं च १९५ प्रकाशयति । यदा भारतश्च सूर्यः पूर्वदक्षिणस्यामुद्गत्य दक्षिणप्रतीच्या नैऋतकोणे समागतः सन् अपरविदेहक्षेत्रमाश्रित्य उदयमेति तदा ऐरवतः सूर्यः प्रतीच्युदीच्या वायव्यकोणे. समुद्गत्य उत्तरपूर्वस्यामागतः सन् पूर्वविदेहमाश्रित्य उदयमेति । दक्षिणप्रतीच्या नैऋतकोणे समुद्गतः सन् सूर्यः तत ऊवं मण्डलगत्या परिभ्रमन् अपरविदेहान् प्रकाशयति । उत्तरपूर्वस्याम् ईशानकोणे समुद्गतस्तु तत ऊर्ध्व मण्डलगत्या परिभ्रमन् पूर्वविदेहान् प्रकाशयति । तत एष पूर्वविदेहप्रकाशकः सूर्यों पूर्वदक्षिणस्याम् आग्नेयकोणे भरतादि क्षेत्रापेक्षया उदयमेति, अपरविदेहप्रकाशकः सूर्यस्तु प्रतीच्युदीच्यां वायव्यकोणे उदयमेतीति । तदेवं जम्बूद्वीपे द्वीपे सूर्ययो रुदयविधिः प्रदर्शितः, साम्प्रतं क्षेत्रविभागेन दिवसरात्रि विभागमाह-'ता जया गं' इत्यादि । 'ता' तावत् 'जया णं' यदा खलु 'जबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'दाहिणड्ढे दिवसे भवई' दक्षिणार्धे दिवसो भवति 'तया णं' तदा खलु 'उत्तरड्ढे वि' उत्तरार्धेऽपि 'दिवसे भवई' दिवसो भवति द्वयोः सूर्ययोः परस्परं समकालं सन्मुखं प्रतिकूलदिक्चारित्वात् । तदा एकः सूर्यः दक्षिणदिशि परिभ्रमति तदाऽपरः सूर्योऽवश्यमुत्तरदिशि परिभ्रमति ततः दक्षिणार्धे उत्तरार्धे च उभयत्र दिवसो भवत्येवेति भावः । 'जया णं' यदा खलु 'उत्तरड्डे' उत्तरार्धे उपलक्षणात् दक्षिणार्धे च 'दिवसे भवई' दिवसो भवति 'तया णं तदा खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपेद्विीपे 'मदरस्स पव्वयस्स' मन्दरस्य पर्वतस्य 'पुरथिमपच्चत्थिमेणं' पौरस्त्यपाश्चात्ये पूर्वस्यां पश्चिमायां च दिशि 'राई भबई' रात्रिर्भवति द्वयोः सूर्ययो दक्षिणोत्तरचरणापूर्वपश्चिमयोरेकस्यापि सूर्यस्योपस्थितेरभावात् । 'जया णं' यदा खलु जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'मंदरस्स पव्वयस्स' मन्दरस्य पर्वतस्य 'पुरथिमेणं' पौरस्त्ये पूर्वस्यां दिशि 'दिवसे भवई' दिवसो भवति 'तया णं' तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य 'पच्चत्थिमेणं पि' पाश्चात्येऽपि पश्चिमायां दिशायामपि 'दिवसे भवइ' दिवसो भवति द्वयोः सूर्ययोः परस्परं विपरीतदिशोः समकालं संचरणस्वभावत्वात् उभयत्र दिवसो भवत्येव । यदा एकः सूर्यः पूर्वस्यां चारं चरति तदाऽपरः पश्चिमायां दिशि चारं चरत्येवेति । 'जया णं' यदा खलु 'पच्चत्थिमेणं' पाश्चात्ये पश्चिमायां दिशि उपलक्षणात् पूर्वस्यां च दिशि 'दिवसे भवई' दिवसो भवति 'तया गं' तदा खल 'जवुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'मदरस्स पव्वयस्स' मन्दरस्य पर्वतस्य 'उत्तरदाहिणेणं' उत्तर दक्षिणे उत्तरस्यां दक्षिणस्यां च दिशि 'राई भवई' रात्रिर्भवति द्वयोः सूर्ययोः पूर्वपश्चिमदिशोः संचरणसमये उत्तरे दक्षिणे च एकस्यापि सूर्यस्योपास्थत्यभावात् ।२॥ एवं दिवसरात्रिविभागमुपदर्य साम्प्रतं तत्प्रमाणमुपदर्शयति-'ता जया णं' इत्यादि । 'ता' तावत् 'जया णं यदा खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'दाहिणडूढे' दक्षिणार्धे 'उक्कोसए' उत्कर्षकः 'अट्ठार
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy