________________
चन्द्रप्राप्तिसूत्र खलु पाश्चात्ये जघन्यको द्वादशमुहूर्तो दिवसो भवति तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरे दक्षिणे उत्कर्षिका अष्टादशमुहूर्ता रात्रिर्भवति ।३ । सू० २॥
व्याख्या—'वयं पुण' वयं तु 'एवं' एवं-वक्ष्यमाणप्रकारेण 'वयामो' वदामः । किं वदामः । तदेवाह-'ता जंबुद्दीवे दीवे' इत्यादि । 'ता' तावत् 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'सरिया' सूर्यौ द्वौ सूर्यो भरतैरवतसम्बन्धिनौ मण्डलगत्या परिभ्रमन्तौ 'उदीणपाईणं' उदीचीप्राच्या उत्तरपूर्वस्याम् ईशानकोणे 'उग्गच्छंति' उद्गच्छतः उद्गत्येत्यर्थः ‘पाईणदाहिणं प्राचीदक्षिणस्यां पूर्वदक्षिणायाम्-अग्निकोणे 'आगच्छति' आगच्छतः अस्तं प्राप्नुतः १। 'पाईणदाहिणं' प्राचीदक्षिणस्याम् अग्निकोणे 'उग्गच्छंति' उद्गच्छतः उद्गत्य 'दाहिणपहीणं' दक्षिणप्रतीच्या नैर्ऋतकोणे 'आगच्छंति' आगच्छन्तः अस्तं प्राप्नुतः २ । 'दाहिणपडीणं' दक्षिणप्रतीच्याम् 'उग्गच्छंति' उद्गच्छतः उद्गत्य 'पडीणउदीणं' प्रतीच्युदीच्या वायुकोणे 'आगच्छंति, आगच्छतः अस्तं प्राप्नुतः।३। 'पडीणउदीणं' प्रतीच्युदीच्यां वायुकोणे 'उग्गच्छंति' उद्गच्छतः उद्गत्य 'उदीणपाईणं' उदीचीप्राच्याम् ईशानकोणे 'आगच्छंति' आगच्छतः अस्तं प्राप्नुतः ४। एवं द्वौ भरतैरवतसूर्यो ईशानकोणाद् उद्गत्य चतुर्पु विदिक्षु उदयास्तक्रमेण परिभ्रम्य अन्ते ईशानकोणे एव अस्तं प्राप्नुतः । एवं जम्बूद्वीपस्य द्वीपस्य परितः द्वौ सूयौं मण्डलगत्या परिभ्रम्य चारं चरतइति भावः ।।
अयं तावत् सामान्यतः समुदितयोयोः सूर्ययोरुदयास्तविधिः प्रदर्शितः । विशेषत एकैकसूर्यमाश्रित्य तद्विधिरेवं ज्ञातव्यः-अत्र एकः सूर्यो द्वितीयसूर्यस्य सन्मुखं प्रतिकूलदिशि चारं चरति इति लोकव्यवस्थाया नियमः, यथा-यदा एकः सूर्यः उत्तरपूर्वस्यामीशानकोणे उद्गछति तदा द्वितीयः दक्षिणपश्चिमायां नैर्ऋतकोणे उद्गच्छति, यदा उत्तरपूर्वस्यामुद्गतः सूर्यः प्राचीदक्षिणस्याम् आगच्छति पूर्वक्षेत्रापेक्षया अस्तमेति तत्क्षेत्रापेक्षया चोद्गच्छतीत्यवधेयम्तदा दक्षिणप्रतीच्या नैऋतकोणे उद्गतः सूर्यः प्रतीच्युदीच्याम् वायव्यकोणे आगच्छतीति पूर्वक्षेत्रापेक्षयाऽस्तमेति तत्क्षेत्रापेक्षया चोद्गच्छतीति ज्ञातव्यम् न कदापि सूर्य उद्गच्छति न चास्तमेति च किन्तु सूर्यस्य चक्षुषोः स्पर्शास्पर्शमाश्रित्य लोका उदयास्तशब्देन व्यवहरन्ति । सूर्यस्य चक्षुःस्पर्श सूर्य उदितः, इति चक्षुःस्पर्शाभावे सूर्यः अस्तंगतः इति लोका व्यवहरन्तीति विवेकः । प्रकृतमनुसरामः-यदा एकः सूर्यः पूर्वदक्षिणस्याम् अग्निकोणे उद्गच्छति तदाऽपरः प्रतीच्युदीच्यां तत्सन्मुखं वायव्यकोणे समुद्गच्छति, एष द्वयोः सूर्ययो उदयविधिः । यदा पूर्वदक्षिणोद्गतश्च भारतः सूर्यो भरतादीनि क्षेत्राणि मेरुदक्षिणदिग्भावीनि मण्डलगत्या परिभ्रमन् प्रकाशयति. तदाऽपरः सूर्यः पश्चिमोत्तरस्यां वायव्यकोणे समुद्गतः सन् तत ऊर्व मण्डलगत्या परिभ्रमन् ऐरवतादीनि क्षेत्राणि यानि मेरोरुत्तरदिग्भावीनि वर्तन्ते. तानि