________________
चन्द्राप्तिप्रकाशिका टीक प्रा० ८ सू० १ सूर्यस्य उदयसंस्थितिनिरूपणम् १९१ 'तया णं तदा खलु 'उत्तरड्ढे' उत्तरार्धे उत्तरदिकू स्थिते जम्बूद्वीपस्यार्धे भागे 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहूर्ता रात्रिर्भवति, 'जया णं' यदा खलु उत्तरड्ढे उत्तरार्धे 'अट्ठारसमुहुत्ते दिवसे भवइ' अष्टादशमुहतों दिवसो भवति 'तयाणं' तदा खलु 'दाहिणड्ढे' दक्षिणार्धे 'अट्ठारसमुहुत्ताणंतरे दिवसे भवई' अष्टादशमुहूर्त्तानन्तरः अष्टादशभ्यो मुहूर्तेभ्यो हीनो दिवसो भवति 'तया णं' तदा स्खलु 'उत्तरड्डे' उत्तरार्धे 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहूर्ता रात्रिर्भवति, 'जया णं' यदा खलु 'उत्तरड्ढे' उत्तरार्धे 'अट्ठारसमुहुत्ताणंतरे' अष्टादशमुहूर्त्तानन्तरः अष्टादशमुहूर्तेभ्यो होनः 'दिवसे भवई' दिवसो भवति 'तया णं' तदा खलु 'दाहिणड्डे' दक्षिणार्धे 'दुवालसमुहुत्ता राई भवई' द्वादशमुहूर्त्ता रात्रिभवति । ‘एवं' एवम् -अनेन अभिलापप्रकारेण तावद्वक्तव्यं यावत् त्रयोदशमुहूर्तानन्तरदिवससूत्रमायाति । अत्र पूर्णमुहूर्तः, अनन्तरैः किञ्चिन्न्यूनैश्च मुहूर्तेः द्वौ द्वौ आलापको कर्तव्यो, सर्वत्र रात्रिस्तु द्वादशमुहूर्तेव वक्तव्या । तदेवाह-सत्तरसमहुत्ते दिवसे' १, सप्तदशमुहूत्तों दिवसः १, 'सत्तरसमुहुत्ताणंतरे' सप्तदशमुहूर्तानन्तरः २, 'सोलसमुहुत्ते' षोडशमुहूर्तः ३, 'सोलसमुहुत्ताणंतरे' षोडशमुहूर्त्तानन्तरः ४, 'पण्णरसमहुत्ते' पञ्चदशमुहूर्तः ५, 'पण्णरसमुहुत्ताणंतरे' पञ्चदशमुहूर्तानन्तरः ६ चउद्दसमुहुत्ते' चतुर्दशमुहूर्तः ७, 'चउद्दसमहुत्ताणंतरे' चतुर्दशमुहूर्तानन्तरः ८, 'तेरसमुहुत्ते' त्रयोदशमुहूर्त: ९, 'तेरसहुत्तणंतरे' त्रयोदशमुहूर्तानन्तरः १०,। एते दशआलापकाः पूर्वप्रदर्शितरीत्या स्वयमूहनीयाः । अथ द्वादशमुहूर्तालापकद्वयं सूत्रकारः स्वयं प्रदर्शयति–ता जया णं' इत्यादि। 'ता' तावत् 'जया णं' यदा खलु 'दाहिणड्ढे' दक्षिणार्धे 'बारसमुहुत्ते दिवसे भवई' द्वादशमुहूत्तों दिवसो भवति 'तया णं' तदा खलु 'उत्तरड ढे' उत्तरार्धे 'बारसहुत्ता राई भबई' द्वादशमुहूर्ता रात्रिर्भवति, 'जया णं' यदा खलु 'उत्तर'ढे उतरार्धे 'बारसहुत्ताणंतरे' द्वादशमुहूर्तानन्तरः दिवसे भवई' दिवसो भवति 'तया णं' तदा खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'मंदरस्स पव्वयस्स' मन्दरस्य पर्वतस्य 'पुरथिमपच्चत्थिमेणं' पौरस्त्यपाश्चात्ये पूर्वापरदिग्भागे ‘णेवत्थि' नैवास्ति 'पण्णरसमुहुत्ते दिवसे' पञ्चदशमुहूत्तों दिवसः, तथा 'णेवत्थि' नैवास्ति ‘पण्णरसमुहुत्ता राई' पञ्चदशमुहूर्ता रात्रिः 'भवई' भवति । कथमित्याह - 'वोच्छिण्णा णं' व्यवच्छिन्नानि विनष्टानि खलु 'तत्थ राइंदिया' तत्र रात्रिन्दिवानि 'पण्णत्ता' प्रज्ञप्तानि अस्मदाचार्यैः 'समणाउसो' हे श्रमणायुष्मन्तः ! उपसंहारः- 'एगे' एके तृतीयाः 'एवं' एवं पूर्वोक्तप्रकारेण 'आहेसु' आहुः कथयन्तीति । इति तृतीया प्रतिपत्तिः ।३।सू०॥१॥
उक्तास्तिस्रः प्रतिपत्तयः, एता स्तिस्रोऽपि प्रतिपत्तयो मिथ्यारूपाः सन्ति भगवतामनभिमतत्वात् । अत्रापि ये तृतीयाः परतीर्थिकाः सदैव द्वादशमुहूर्ती रात्रिं प्रतिपादयन्ति तेषां प्ररूप