SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १९० चन्द्रप्राप्तिसूत्रे अष्टादशमुहूर्तेभ्यो न्यूनः 'दिवसे भवइ' दिवसो भवति । अत्र-अनन्तरशब्दो न्यूनार्थवाची वर्त्तते । 'तया णं' तदा खलु 'उत्तरड्ढेवि उत्तरार्धेऽपि 'अट्ठारसमुहुत्ताणतरे' अष्टादशमुहूर्तानन्तरः 'दिवसो भवई' दिवसो भवति। 'जया णं' यदा खलु 'उत्तरड्ढे' उत्तरार्धेः 'अट्ठारसमुहुत्ताणंतरे दिवसे भवई' अष्टादशमुहूर्तानन्तरो दिवसो भवति 'तया णं' तदा खलु 'दाहिणड्ढे वि' दक्षिणार्धेऽपि 'अट्ठारसमुहुत्ताणंतरे दिवसे भवई' अष्टादशमुहूर्त्तानन्तरो दिवसो भवति । 'एवं' एवम्-अनेन प्रकारेण 'परिहावेयव्वं' परिहातव्यम् एकैकमुहूर्तहान्या न्यूनीकर्तव्यम् । तदेव परिहाणिप्रकारमाह ‘सत्तरस' इत्यादि । सत्तरसमुहुताणतरे' सप्तदशमुहूर्त्तानन्तरः, सोलसमुहुत्ताणंतरे' षोडशमुहूर्तानन्तरः, 'पण्णरसमुहुत्ताणंतरे' पञ्चदशमुहूर्तानन्तः, 'चउद्दसमुहुत्ताणंतरे' चतुर्दशमुहूर्त्तानन्तरः, 'तेरसमुहुत्ताणंतरे' त्रयोदशमुहूर्त्तानन्तरः । अथ द्वादशमुहूर्तानन्तरसूत्रं सूत्रकारः स्वयं दर्शयति–'ता जया ' इत्यादि, 'ता' तावत् 'जया णं' यदा खलु 'दाहिणड्ढे' दक्षिणार्धे 'बारसमुहुत्ताणंतरे' द्वादशमुहूर्तानन्तरः 'दिवसे भवई' दिवसो भवति 'तया णं' तदा खलु उत्तरड्ढे वि' उत्तरार्धेऽपि 'दुवालसमुहुत्ताणंतरे' द्वादशमुहूर्तानन्तरः 'दिवसे भवई' दिवसो भवति । 'जया णं' यदा खलु उत्तरड्ढे उत्तरार्धे 'दुवालसमुहुत्ताणंतरे' द्वादशमुहूर्तानन्तरः 'दिवसे भवई' दिवसो भवति 'तया गं' तदा खलु 'दाहिणड्ढेवि' दक्षिणार्धेऽपि 'दुवालसमुहुत्ताणतरे' द्वादशमुहूर्तानन्तरः, द्वादशमुहूर्तेभ्यो न्यूनः ‘दिवसे भवइ' दिवसो भवति । 'तया ण' तदा अष्टादशादिद्वादशमुहूर्तानन्तरदिवससमये स्खलु 'जम्बुद्दोवे दीवे' जम्बूद्वीपे द्वीपे 'मंदरस्स पब्वयस्स' मन्दरस्य पर्वतस्य 'पुरस्थिमपच्चत्थिमेणं' पौरस्त्यपाश्चात्ये पूर्वस्यामपरस्यां च दिशि 'नो' नैव 'सया' सदा सर्वकाले 'पण्णरसमहुत्ते दिवसे भवई' पञ्चदशमुहूत्तों दिवसो भवति, तथा 'नो' नैव सया' सदा सर्वकालं 'पण्णरसमहत्ता राई भवई' पञ्चदशमुहूर्ता रात्रि र्भवति । तत्र को हेतुः ! इत्याह-'अणवडिया' इत्यादि, 'अणवट्ठिया णं' अनवस्थितानि अनियतप्रमाणानि खलु तत्र मन्दरस्य पूर्वापरदिशोः 'राइंदिया' रात्रिन्दिवानि 'पण्णत्ता' प्रज्ञतानि अस्मत्पूर्वाचार्यैः कथितानि 'समणाउसो' श्रमणायुष्मन्तः हे चिरजीविनः श्रमणा इति । उपसंहारः'एगे' एके द्वितीयप्रतिपत्तिवादिनः 'एवं' एवं पूर्वोक्तप्रकारेण 'आइंसु' आहुः-कथयन्ति । एषा द्वितीया प्रतिपत्तिः ।२। अथ तृतीयां प्रतिपत्तिमाह-'एगे' इत्यादि । एगेपुण' एक तृतीयाः परतीर्थिकाः पुनः एवं' एवं वक्ष्यमाणप्रकारेण आहेसु' आहुः कथयन्ति, तदेवाह -'ता जयाणं' इत्यादि । 'ता' तावत् 'जयाणं' यदा खलु जंबु द्दीवे दीवे जम्बूद्वीपे द्वीपे 'दाहिणइढे' दक्षिणार्धे दक्षिणदिक् स्थिते जम्बूद्वीपस्यार्धे भागे 'अट्ठारसमुहुत्ते दिवसे भवई' अष्टादशमुहर्तो दिवसो भवति
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy