________________
व्याख्यातं षष्ठं प्राभृतम् व्याख्यातं षष्ठं प्राभृतम् । तत्र -ओजःसंस्थिति प्रतिपादिताः, अथ सप्तमं प्राभृतं व्याख्यायते तस्य चायमर्थाधिकारः किं ते सूरियं वरइ' किं ते सूर्य वरयति ! हे भगवन् तव मते सूर्य कः वरयति प्रकाशयति, इत्येतदधिकारं विवृण्वन्नाह–'ता किं ते सरियं' इत्यादि ।
___ मूलम् ता किं ते सरियं वरइ आडितेति वएज्जा । तत्थ खलु इमाओ वीसई पडिवत्तीओ पण्णत्ताओ, तं जहा-तत्थ खलु एगे एवमाहंसु-ता मंदरे णं पब्बए सूरियं वरइ, एगे एवमाहंसु ।१। एगे पुण एवमासु-ता मेरुवणं पव्वए सूरियं वरइ, एगे एव मासु ।२। एवं एएणं अभिलावेणं जाव वीसइमा पडिवत्ती जाव ता पन्धयराएणं पव्वए सूरियं वरइ, एगे एवमाहंसु ।२०। वयं पुण एवं वयामो मंदरे वि पवुच्चइ, मेरू वि पवुच्चइ, एवं जाव पव्ययराओ वि पवुच्चइ। ता जे णं पोग्गला सूरियस्स लेसं फुसंति ते गं पोग्गला सूरियं वरंति, अदिट्ठावि णं पोग्गला सूरियं वरंति, चरमलेस्संतरगया वि णं पोग्गला सूरियं वरंति ॥सू० १॥
चंद पन्नत्तीए सत्तमं पाहुडं समत्तं ॥७॥ छाया--तावत् कस्ते सूर्य परयति आख्यात इति वदेत् । तत्र खलु इमा विशतिः प्रतिपत्तयः प्रक्षप्ताः, तद्यथा-तत्र स्खलु एके एवमाहुः-तावत् मन्दरः खलु पर्वतः सूर्य वरयति, एके पवमाहुः ।। पके पुनरेवमाहुः-तावत् मेरुः खलु पर्वतः सूर्य वरयति, एके एवमाहुः ।२। एवम् एतेन अभिलापेन यावत् विंशतितमा, प्रतिप्रत्तिः, यावत्-तावत् पर्वतराजः खलु पर्वतः सूर्य वरयति एके एवमाहुः ।२०। वयं पुनरेवं वदामः-मन्दरोऽपि प्रोच्यते, मेरुरपि प्रोच्यते, एवं यावत् पर्वतराजोऽपि प्रोच्यते । तावत् ये खलु पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते खलु पुद्गलाः सूर्य वरयन्ति, अदृष्टा अपि खलु पुद्गलाः सूर्य वरयन्ति, चरमलेश्यान्तरगता अपि स्खलु पुद्गलाः सूर्य वरयन्ति ।।सू० १॥
चन्द्रप्राप्त्यां सप्तमं प्राभृतं समाप्तम् ॥७॥ व्याख्या-'ता' तावत् 'कि' कः 'ते' तवमते 'सूरियं' सूर्य 'वरइ वरयति' वर ईप्सायाम् वरयन् आप्तुमिच्छन् स्वप्रकाशकत्वेन स्वीकुर्वन् 'आहिए' आख्यातः ? 'तिवएज्जा' इति वदेत् । अत्र भगवान् प्रतिपत्तीः प्रदर्शयति-'तत्थ खलु' तत्र सूर्यस्य वरणविषये खलु 'इमाओ' इमाः वक्ष्यमाणाः 'वीसई' विंशतिः विंशतिसंख्यकाः 'पडिवत्तीओ' प्रतिपत्तयः परमतरूपाः 'पण्णत्ता' प्रज्ञप्ताः, 'तं जहा' तद्यथा-ता यथा-'तत्थ खलु' तत्र विंशति-प्रतिपत्तिवादिषु मध्ये खलु 'एगे' एके प्रथमाः ‘एवं' एवम् वक्ष्यमाणप्रकारेण 'आइंसु' आहुः कथयन्ति 'ता' तावत् 'मंदरे ण पबए' मन्दरः खल पर्वतः 'सरिय' सूर्य 'वरई' वरयति मन्दरः पर्वतो हि सूर्येण