________________
चन्द्रशति प्रकाशिकाटीका प्रा० ७ सू० १
सूर्यवरणनिरूपणम् १८५
मण्डलपरिभ्रम्या सर्वतः प्रकाश्यते ततः सः सूर्यं स्वप्रकाशकत्वेन वरयतीति प्रोच्यते । एवमग्रेऽपि बोध्यम् । 'एगे एवमाहंसु' एके प्रथमा एवं पूर्वोक्तप्रकारेण आहुः ॥ १ ॥ 'एगे पुण' एके द्वितीयाः पुनः ' एवं ' एवं वक्ष्यमाणप्रकारेण 'आहंसु' आहुः 'ता' तावत् 'मेरू णं पव्वए' मेरुः खलु पर्वतः 'सूरियं' सूर्य 'वर' वरयति, 'एगे एवमाहंसु' एके द्वितोया एवं पूर्वोक्तप्रकारेण आहुः । ' एवं ' अनेन प्रकारेण 'एएणं' एतेन पूर्वोक्तेन 'अभिलावेणं' अभिलापेन अग्रेऽपि आलापकाः कर्त्तव्याः । कियत्पर्यन्तमित्याह - 'जान' इत्यादि । 'जान' यावत् 'वीसइमा ' विंशतितमा 'पडिवत्ती' प्रतिपत्तिः भवेत् 'जाव' यावत् 'ता' पूर्ववत् 'पव्वयराए णं पव्वए' पर्वतराजः खलु पर्वतः 'सूरियं वरइ' सूर्य वरयति 'एगे एवमाहंसु' एके विंशतितमाः प्रतिपत्तिवादिनः एवं पूर्वोक्तप्रकारेण आहुः कथयन्ति । अत्र मन्दरादारभ्य पर्वतराजपर्यन्तं विंशतिशब्दानां व्याख्या पूर्व पञ्चमप्राभृते सूर्यस्य लेण्याप्रतिघातप्रकरणे कृतेति तत्र विलोकनीया । एता विंशतिरपि - प्रतिपत्तयो मिथ्यारूपाः एकस्य मन्दरस्यैव विंशतिनामवत्त्वात् तदेव भगवान् स्वमतं प्रदर्शयन्नाह - 'वयं पुण' इत्यादि । 'वयं पुण' वयं पुनः वयं तु ' एवं ' एवं वक्ष्यमाणप्रकारेण 'वयामो' वदामः कथयामः – 'मंदरेवि पवुच्च३' मन्दरोऽपि प्रोच्यते – एते विंशतिप्रतिपत्तिवादिनः अन्यान्य नाम आश्रित्य कथयन्ति किन्तु विंशतिनामवान् एक एव पर्वतो वर्त्तते नान्यः । एष एव पर्वतः मन्दर इति प्रोच्यते । तथा 'मेरू वि पच्चर' मेरुरपि प्रोच्यते ' एवं जाव पव्वयराभो वि पवच्चइ' एवं यावत् मनोरमादारभ्य विंशतितमनामवान् पर्वतराजोऽपि प्रोच्यते एषां नाम्नां सार्थकत्वं पञ्चमप्राभृते सविस्तरं प्रदर्शितं तत्तत्र विलोकनीयम् । न केवलं मेरुरेव सूर्यं वरयति किन्तु अन्येऽपि पुद्गलाः सूर्य वरयन्तीत्याह- ता जेणं' इत्यादि । 'ता' तावत् 'जेणं' ये खलु 'पोग्गला' पुग्दला ः 'सूरियस्स लेस्सं फुसंति' सूर्यस्य लेश्यां स्पृशन्ति 'ते णं पोग्गला' ते खलु पुग्दलाः 'सूरियं वरंति' सूर्य वरयन्ति पुनश्च 'अदिट्ठा वि णं पोग्गला' अदृष्टा अपि खलु पुद्गला ये च प्रकाश्यमानपुद्गलस्कन्धान्तर्गता मेरुस्थिताः सूर्येण प्रकाशिता अपि अतिसूक्ष्मत्वान्न दृष्टिस्पर्शमुपयान्ति ते अदृष्टा अपि पुद्गलाः खलु प्रागुक्तरीत्या 'सूरियं वरंति' सूर्य वरयन्ति तेषामपि सूर्येण प्रकाश्यमानत्वात् । पुनश्च 'चरमले संतरगया विणं पोग्गळा' चरमश्यान्तर्गता अपि सूर्यप्रकाशान्तर्वर्त्तिनोऽपि खलु पुद्गला 'सूरियं वरंति' सूर्यं वरयन्तीति ॥ सू०१ || इति श्री - विश्वविख्यात - जगद्वल्लभ- प्रसिद्धवाचकपञ्चदशभाषाकलित ललितकला पालापक- प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक- श्री शाहु छत्रपति कोल्हापुरराजप्रदत्त "जैनशास्त्राचार्य” पदभूषित - कोल्हापुर राजगुरु बालब्रह्मचारि - जैनशास्त्राचार्य - जैनधर्मदिवाकर श्रीघासीलालवति - विरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिका - ख्यायां व्याख्यायां
सप्तमं प्राभृतं समाप्तम् ॥ ५ ॥ ॥ श्रीरस्तु ॥
२४