________________
wwwwwwwwwwwwwwwwwwwwwwanmohinnavar.
१८२
चन्द्रप्राप्तिसूत्रे सएहि' त्रिंशदधिकाष्टादशशतैः 'छेत्ता' छित्त्वा विभज्य मण्डलस्य भागान् कृत्वा सूर्यश्चारं चरतीति भावः । 'तया णं' तदा खलु अट्ठारसमुहुत्ता राई भवइ' अष्टादशमुहूर्त्ता रात्रिर्भवति, सा च 'चउहिं एगसट्ठिभागमुहुत्तेहिं उणा' चतुमिरेकषष्टिभागमुहूर्तेः ऊना भवति । 'दुवालसमुहुत्ते दिवसे भवई' द्वादशमुहतों दिवसो भवति, स च 'चउहिं एगसहिभागमुहुत्तेहिं' चतुर्मिरेकषष्टिभागमुहूर्तेः 'अहिए' अधिको भवति । 'एवं खलु' एवमनेन प्रकारेण खलु 'एएणं उवाएणं' एतेन पूर्वोक्तरूपेण उपायेन विधिना 'पविसमाणे मरिए' प्रविशन् सूर्यः 'तयाणंतराओ तयाणंतरं' तदनन्तरात् .तदनन्तरं 'मंडलाओ मंडलं' मण्डलान्मण्डलं 'संकममाणे २' संक्रामन् २ 'एगमेगेणं राइंदिएणं' एकैकेन रात्रिन्दिवेन 'एगमेगं भागं' एकैकं भागम् भोजसः 'रयणिखेत्तस्स' रजनीक्षेत्रगतस्य 'णिव्वुड्ढमाणे २' निर्वर्धयन् २ हापयन् २, तथा 'दिवस
खेत्तस्स दिवसक्षेत्रगतस्य 'अभिवुड्ढेमाणे २' अभिवर्धयन् २ 'सबभतरं मंडलं' सर्वाभ्यन्तरं मण्डलम् ‘उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'ता' तावत् 'जया णं' यदा खलु 'मूरिए' सूर्यः 'सब्वबाहिराओ' सर्वबाद्यान्मण्डलात् 'सबभंतरं मंडलं' सर्वाभ्यन्तरं मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'सव्वबाहिरं मंडलं' सर्वबाह्यमण्डलं 'पणिहाय' प्रणिधाय अवधीकृत्य तत आरभ्येत्यर्थः ‘एगेणं तेसीएणं राइंदियसएणं' ज्यशीत्यधिकैकशत (१८३) संख्यकैः रात्रिन्दिवः 'एग तेसीयं भागसयं' व्यशोत्यधिकैकशततम भागम् 'ओयाए' ओजसः 'रयणिखेत्तस्स' रजनीक्षेत्रगतस्य 'णिव्वुड्ढेत्ता' निर्वर्ध्य हापयित्वा, तथा 'दिवसखेत्तस्स' दिवसक्षेत्रगतस्य च ओजसः एकं भागं 'अभिवुड्ढेत्ता' अभिवर्ध्य 'चारं चरई' चारं चरति, 'मंडलं' तन्मण्डलं च 'अट्ठारसेहिं तीसेहिं सएहिं' त्रिंशदधिकाष्टादशशतसंख्यकैः छित्त्वा भागान् कृत्वा मण्डलस्य भागाः कर्तव्याः । 'तया णं' तदा खलु 'उत्तमकहपत्ते' उत्तमकाष्ठा प्राप्तः परमप्रकर्षसंपन्नः 'उक्कोसए' उत्कर्षकः सर्वोत्कृष्टः 'अट्ठारसमुहुत्ते दिवसे भवई' अष्टादशमुहूत्र्तो दिवसो भवति, 'जहणिया' जयन्यिका सर्वलध्वी 'दुवा. लसमुहुत्ता राई भवइ' द्वादशमुहूर्ता रात्रिर्भवतीति ।
उपसंहार एवं वाच्यः, तथाहि-एवं पूर्वोक्तप्रकारेण व्यवस्थायां सत्यां कथ्यते यत्-प्रति सूर्य संवत्सरपर्यन्तभागे सर्वाभ्यन्तरे मण्डले त्रिंशनं मुहूर्तान् यावत् सूर्यस्य परिपूर्णमोजः अव स्थितं भवति, ततः परमनवस्थितं भवति । सर्वाभ्यन्तरेऽपि च मण्डले त्रिंशद् मुहूर्तान् यावत् परिपूर्णमवस्थितमोजः कथ्यते, एतद् व्यवहारतो विज्ञेयम्, निश्चयतः पुनस्तत्रापि प्रथमक्षणादूर्ध्व शनैः शनैः ह्रियमाणं ज्ञातव्यम् यतो हि प्रथमक्षणादूचं सूर्यः एकस्मान्मण्डलादनन्तरं द्वितीयमण्डलाभिमुखं चारं चरतीति ।