SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिप्रकाशिका टीका प्रा०६ सू०१ ओजसंस्थितिनिरूपणम् १८१ भागाः क्रियन्ते इति भावः । 'तया णं' तदा खलु तत्प्रस्तावे खलु 'उत्तमकट्टपता' उत्तमकाष्ठाप्राप्ता परमप्रकर्षयुक्ता 'उक्कोसिया' उत्कर्षिका सर्वगुर्वी 'अट्ठारसमुहुत्ता राई भवई' अष्टादशमुहूर्ता रात्रिर्भवति 'जहण्णए' जयन्यकः सर्वलघुः 'दुवालसमुहुत्ते दिवसे भवइ' द्वादशमु. हूतॊ दिवसो भवति । उपसंहारमाह-'एस ' इत्यादि । 'एस गं' एतत् पूर्वप्रदर्शितं खलु ‘पढमे छम्मासे' प्रथमं सूर्यस्य निष्क्रामणेन संजातं रात्रिवृद्धि-दिवसहानिरूपं षण्मासम् । 'एस गं' एतदेव खलु 'पढमस्स छम्मासस्स' प्रथमस्य षण्मासस्य ‘पज्जवसाणे' पर्यवसानम्-अन्तिममहोरात्रमिति ॥ अथ सूर्यस्य सर्वाभ्यन्तरमण्डले प्रवेशस्य वक्तव्यतामाह-'से पविसमाणे' इत्यादि । 'से सः 'पविसमाणे' प्रविशन् सर्वाभ्यन्तरमण्डलाभिमुखं गच्छन् 'मरिए' सूर्यः 'दोच्चं' द्वितीयं दिवसवृद्धिरात्रिहानिरूपं 'छम्मासं' षण्मासं 'अयमाणे' अयन् प्राप्नुवन् 'पढमंसि अहोरसि' प्रथमेऽहोरात्रे 'बाहिराणंतरं मंडळ' बाह्यानन्तरं सर्वबाह्यमण्डलाद्वितीय मण्डलम् 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति । 'ता' तावत् 'जया णं' यदा खल्लु 'मरिए' सूर्यः 'बाहिराणंतरं मंडलं' बाह्यानन्तरं द्वितीयं मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तया णं' तदा खल्ल 'एगेणं राईदिएणं' एकेन रात्रिन्दिवेन 'एगं भागं' एकं भागम् 'ओयाए' ओजसः प्रकाशस्य, कीदृशस्य ?- 'रयणिखेत्तस्स' रजनीक्षेत्रगतस्य 'णिव्बुड्ढित्ता' निर्वर्थ्य हापयित्वा, तथा 'दिवसखेत्तस्स' दिवसक्षेत्रस्य ओजसः-एक भाग 'अभिवुड्ढेत्ता' अभिवर्ध्य 'चारं चरइ' चारं चरति । 'मंडलं' मण्डलं च 'अट्ठारसहिं तीसेहि सरहिं' अष्टादशशतैस्त्रिंशदधिकैः ‘छेत्ता' छित्त्वा विभज्य मण्डलस्य त्रिंशदधिकाष्टादशशतभागाः कर्त्तव्या इति भावः । 'तया णं' तदा खलु 'अट्ठारसमुहुत्ता राई भवई' अष्टादशमुहूर्ता रात्रिर्भवति, सा च 'दोहिं एगसद्विभागमुहुत्तेहि' द्वाभ्यामेकषष्टिभागमुहूर्ताभ्याम् 'उणा' ऊ हीना भवति, 'दुवालसमुहुत्ते दिवसे भवइ' द्वादशमुहूर्तो दिवसो भवति, स च 'दोहिं एगसद्विभागमुहुत्तेहिं अहिए' द्वाभ्यामेकषष्टिभागमुहूर्ताभ्यामधिको भवति । पुनश्च 'से' सः 'पविसमाणे सूरिए' प्रविशन् सर्यः 'दोच्चंसि अहोरत्तंसि' द्वितीयेऽहोरात्रे 'बाहिराणंतरं' बाह्यानन्तरं बाह्यभागादगेतनं तच्चं मंडलं' तृतीयं मण्डलम् ‘उवसंकमित्ता चारं चरइं' उपसंक्रम्य चारं चरति । 'ता' तावत् 'जया णं' यदा खलु 'सूरिए' सूर्यः बाहिराणंतरं तच्चं मंडलं' बाह्यानन्तरं तृतीय मण्डलम् 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति 'तया णं' तदा स्खलु 'दोहिं राई. दिएहि' द्वाभ्यां रात्रिन्दिवाभ्यां 'दो भाए, द्वौ भागौ 'ओयाए' ओजसः 'रयणिखेत्तस्स' रजनीक्षेत्रगतस्य ‘णिव्वुडढेत्ता' निर्वयं हापयित्वा 'दिवसखेत्तस्स' दिवसक्षेत्रगतस्य च ओजसो द्वौ भागौ 'अभिव्वुड्ढेत्ता' अभिवय चारं चरति, 'मंडलं' तन्मण्डलं च 'अट्ठारसेहिं तीसेहि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy