SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ vvvvvv १८० चन्द्रप्रक्षप्तिसूत्रे पुनश्च–'से' सः 'णिक्खममाणे सुरिए' निष्क्रामन् सूर्यः 'दोच्चंसि अहोरत्तंसि' द्वितीयेऽहोरात्रे 'अभिंतराणंतरं तच्चं मंडलं आभ्यन्तरानन्तरम् सर्वाभ्यन्तरमण्डलादतनं तृतीयं मण्डलम् 'उवसंकमित्ता चारं चरइ' उवसंक्रम्य चारं चरति । 'ता' तावत् 'जया णं' यदा बलु 'सूरिए' सूर्यः 'अभितराणंतरं तच्चं मंडलं, आभ्यन्तरानन्तरं तृतीयं मण्डलम् 'उपसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'दोहिं राइंदिरहिं' द्वाभ्यां रात्रिन्दि. वाभ्यां 'दो भागे' दो भागौ 'ओयाए' ओजसः 'दिवसखेत्तस्स' दिवसक्षेत्रस्य दिवसक्षेत्रगतस्य 'णिव्वुइढित्ता' निर्वर्य-हापयित्वा, तथा-'रयणिखेत्तस्स' रजनीक्षेत्रस्य रजनीक्षेत्रगतस्य 'अभिवड्ढेत्ता' अभिवर्ध्य 'चारं चरई' चारं चरति, ‘मंडलं' मण्डलम् 'अद्वारसहिं तीसेहि सएहिं' अष्टादशभिः त्रिंशता शतैः त्रिंशदधिकाष्टादशशतैः 'छेत्ता' छित्त्वा विभज्य मण्डलस्य. विभागाः करणीया इत्यर्थः । 'तया गं' तदा खलु 'अद्वारसमुहुत्ते दिवसे भवई' भष्टादशमुहूत्तों दिवसो भवति, स च 'चउहि एगसट्ठिभागमुहुत्तेहि' चतुभिरेकषष्टिभागमुहूत्तः 'ऊणे' ऊनः हीनो भवति । तथा 'दुवालसमुहुत्ता राई भवई' द्वादशमुहूर्ता रात्रिर्भवति, सा च 'चउहिं एगस. द्विभागमुहुत्तेहिं' चतुर्भिरेकषष्टिभागमुहूर्तेः 'अहिया' अधिका भवति । 'एव खलु' एवम्अनेन प्रकारेण खलु 'एएण' एतेन पूर्वप्रदर्शितेन 'उवाएण' उपायेन युक्तिरूपेण 'णिक्खममाणे सूरिए' निष्क्रामन् सूर्यः 'तयाणंतराओ तयाणंतरं' तदनन्तरात् तदनन्तरं 'मंडलाओ मंडलं' मण्डलान्मण्डलम् एकस्मान्मण्डलाद् अग्रेतनं द्वितीयं मण्डलं-'संकममाणे २' संका. मन् २ 'एगमेगे मंडले' एकैकस्मिन् मण्डले 'एगमेगेणं राइदिएणं' एकैकेन रात्रिन्दिवेन'एगमेगं भागं' एकैकं भागम् 'ओयाए' ओजसः 'दिवसखेत्तस्स' दिवसक्षेत्रस्य दिवसक्षेत्रगतस्य 'णिव्वड्ढेमाणे २' निर्वर्धयन् २ हापयन् २, 'रयणिखेत्तस्स' रजनीक्षेत्रगतस्य ओज सश्च एकैकं भागम् 'अभिबढेमाणे २' अभिवर्धयन् २, 'सन्चबाहिरं मंडलं' सर्वबाह्य मण्डलम् 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति । 'ता' तावत् 'जया णं' यदा खल्ल 'सरिए' सूर्यः 'सव्वभंतराओ मंडलाओ' सर्वाभ्यन्तरान्मण्डलात् 'सव्वबाहिरं मंडलं' सर्वबाह्यं मण्डलम् 'उबसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'सव्वम्भंतरं मंडलं' सर्वाभ्यन्तरं मण्डलं 'पणिहाय' प्रणिधाय अवधीकृत्य 'एगेणं तेसीएणं राइंदियसएणं' एकेनत्र्यशीतिकेन त्र्यशीत्यधिकेन रात्रिन्दिवशतेन त्र्यशीत्यधिकैकशतसंख्यकैरहोरात्रैः (१८३) 'एगं तेसीयं भागसयं' एकं त्र्यशंतिकं भागशतं व्यशीत्यधिकै कशततमं भागम् 'ओयाए' ओजसः 'दिवसखेत्तस्स' दिवसक्षेत्रगतस्य 'णिव्वुड्ढेत्ता' निर्वयं हापयित्वा, ‘रयणिखेत्तस्स' रजनी क्षेत्रस्य च 'अभिब्बुड्ढेत्ता' अभिवर्ध्य चारं चरति, मण्डलम् तन्मण्डलं 'अट्ठारसेहिं तीसेहि सरहिं' अष्टादशमिः त्रिंशता अधिकैः शतैः (१८३०) 'छेत्ता' छित्त्वा विभज्य विभज्यन्ते इत्यर्थः
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy