SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०--६ सू० १ ओजसंस्थितिनिरूपणम् १७९ एते पुनस्त्रिंशदधिकाष्टादशशतभागाः कथं कल्प्यन्ते ? इति प्रदश्यते-इह-एकैकं मण्डलं द्वौ सूर्यो एकैकेनाहोरात्रेण परिभ्रम्य प्रयतः । अहोरात्रश्च त्रिंशन्मुहूर्तप्रमाणो भवति, प्रतिसूर्य चाहोरात्रगणनायां परमार्थतो द्वयोः सूर्ययोः द्वौ अहोरात्रौ भवतः । अतो द्वयोरहोरात्रयोर्मुहूर्ताः षष्टिसंख्यका जायन्तेऽतो मण्डलं प्रथमतः षष्ट्या भागैर्विभज्यते एकस्य मण्डलस्य षष्टिभागा जाता इत्यर्थः । अथ निष्क्रामन्तौ द्वौ सूर्यों प्रत्यहोरात्रं प्रत्येकं द्वौ दौ मुहर्तकषष्टिभागौ हापयतः, प्रविशन्तौ चाभिवर्धयतः, ततश्च द्वौ मुहूर्तेकषष्टिभगा। समुदितौ भवतः, तयोरेकः सार्धत्रिंशत्तमो भागो भवति, ततः षष्टिरपि भागाः सार्धत्रिंशता. गुण्यन्ते जातास्त्रिंशदधिकाष्टादशशतभागा (६०४ ३०=१८३०)। अत्र गुण्याङ्काः षष्टि(६०) गुणकाङ्काः सार्धत्रिंशत् (३०॥) अनयोर्गुणने समायाति यथोका संख्या (१८३०) इति । ____ एवं निष्क्रामन् सूर्यः प्रति मण्डलं त्रिंशदधिकाष्टादशशतसंख्यकभागानां सत्कमेकैकं भागं दिवसक्षेत्रगतस्य ओजसः (प्रकाशस्य) हापयन् हापयन् रजनीक्षेत्रस्य चाभिवर्धयन् अभिवर्धयन् सूर्यः सर्वबाह्यमण्डले गच्छति ततः सर्वबाह्यमण्डलपर्यन्तमेव वक्तव्यम् । सर्वबाह्यमण्डले त्र्यशीत्यधिकमेकं शतं (१८३) भागानां दिवसक्षेत्रगतस्य प्रकाशस्य हापनेन रजनीक्षेत्रस्य चाभिवर्धनेन भवति । एतच्च त्र्यशीत्यधिकं भागशतं त्रिंशदधिकाष्टादशशतभागानां दशमो भागो भवति, ततः सर्वाभ्यन्तरान्मण्डलात् सर्वबाह्यमण्डले दिवसक्षेत्रस्य जम्बूद्वीपचक्रवालदशभागस्त्रुटयति, रजनी क्षेत्रस्य चाभिवर्धते इति पूर्वमभिहितमेव । ___एवमेव सर्वाभ्यन्तरं मण्डलं प्रविशन् प्रतिमण्डलं त्रिंशदधिकाष्टादशशतभागानां सत्कमेकैकं भागं दिवसक्षेत्रगतस्य प्रकाशस्याभिवर्धयन् रात्रिक्षेत्रगतस्य प्रकाशस्य च हापयन् तावद् वक्तव्यं यावत् सर्वाभ्यन्तरे मण्डले व्यशोत्यधिकैकशतभागं (१८३) दिवसक्षेत्रगतस्य प्रकाशस्याभिवर्धयति, रजनीक्षेत्रस्य च त्र्यशोत्यधिकैकशतभागं हापयति । एतत् ज्यशीत्यधिक भागशतं च जम्बूद्वीपचक्रवालस्य दशमो भागो भवति, ततः सर्वबाह्य मण्डलात् सर्वाभ्यन्तरमण्डले दिवसक्षेत्रगतस्य प्रकाशस्यैको दशमश्चक्रवालभागोऽभिवर्धते, रजनीक्षेत्रस्य चैषस्त्रुट्यति, इति यत् प्रागभिहितं तत्समुचितमेवेति । एतत्सर्वे भगवान् मूले प्रदर्शयिष्यति । तदेवाह-'तया णं' इत्यादि। 'तया णं तदा सूर्यस्य निष्क्रमणसमये खलु यदा एकेन रात्रिन्दिवेन एक भागं दिवसक्षेत्रगतस्य प्रकाशस्य हापयित्वा, रजनीक्षेत्रस्य चाभिवर्ध्य सूर्यश्चारं चरति तदा - इत्यर्थः, 'अद्वारसमुहुत्ते दिवसे भवई' अष्टादशमुहूत्तों दिवसो भवति किन्तु सः 'दोहिं एगसद्विभागमुहुत्तेहिं ऊणे' द्वाभ्यामेकषष्टिभागमुहर्ताभ्यामूनः-हीनो भवति, 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहूर्त्ता रात्रिभवति, सा च 'दोहिं एगसद्विभागमुहुत्तेहिं' अहिया द्वाभ्यामेकषष्टिभागमुहद्भ्यामधिका भवतीति ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy