________________
चन्द्रप्रज्ञप्ति
'देस' देशं भागैकरूपं प्रत्येकमण्डले 'णिव्वुड्ढेई' निर्वर्धयति हापयति, 'पविसमाणे' प्रविशन् सर्वबाह्यमण्डलात् सर्वाभ्यन्तरमण्डलाभिमुखं गच्छन् 'मरिए' सूर्यः 'देसं' देशं भागैकरूपं प्रत्येकमण्डले 'अभिवड्ढेई' अभिवर्धयति तत्र वृद्धिं करोतीति । अत एवोच्यते सूर्यस्य सर्वाभ्यन्तरमण्डलचारसमये त्रिंशन्मुइर्लान् यावत् परिपूर्णतया सूर्यस्य ओजः अवस्थितं तिष्ठति, ततः परम् अनवस्थितमिति । अत्र गौतमः प्रश्नयति-'तत्थ' इत्यादि । 'तत्य' तत्र-सूयौजसोऽवस्थितानवस्थितविषये 'को' किदृशः 'हेऊ' हेतुः तत्र किंकारणम् १ 'तिवएज्जा' इति वदेत् हे भगवन् तत्र कारणं वदतु कथयतु । अथ भगवान् तत्कारणं प्रदर्शयन्नाह-'ता अयण्णं' इत्यादि । 'ता' तावत् 'अयण्णं' अयं खलु लोकप्रसिद्धः 'जम्बुद्दीवे दीवे' जम्बूद्वीपो द्वीपः मध्यजम्बूद्वीपः 'जाव' यावत् 'परिक्खेवेणं पण्णत्ते' परिक्षेपेण प्रज्ञप्तः, यावत्पदेन जम्बूद्वीपप्रमाणं सर्वमत्र वाच्यम् । 'ता' तावत् 'जया णं' यदा खलु 'रिए' सूर्यः 'सव्यभंतरं मंडलं उपसंकमित्ता चारं चरई' सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'उत्तमकट्टपत्ते' उत्तमकाष्ठाप्राप्तः परमप्रकर्षसंपन्नः 'उक्कोसए' उत्कर्षकः सर्वोत्कृष्टः 'अद्वारसमुहत्ते दिवसे भवई' अष्टादशमुहूर्तो दिवसो भवति, 'जहणिया' जघन्यिका सर्वलध्वी 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहूर्त्ता रात्रिर्भवतीति ज्ञातव्यम् ।।
____ अथ सूर्यस्य सर्वाभ्यन्तरमण्डलान्निष्क्रमणसमयव्यवस्था प्रदर्शयति-से णिक्खममाणे इत्यादि । 'से' सः ‘णिक्खममाणे' निष्क्रामन् सर्वाभ्यन्तरमण्डलात् सर्वबाह्यमण्डलाभिमुखं गच्छन् 'मरिए' सूर्यः ‘णवं संवच्छरं' नवं संवत्सरं दिवसहापनरात्रिवर्धनरूपम् 'अयमाणे' अयन् प्राप्नुवन् 'पढमंसि अहोरत्तंसि' प्रथमेऽहोरात्रे 'अभितराणंतरं मंडलं' अभ्यन्तरानन्तरं सर्वाभ्यन्तरमण्डलाद् द्वितीयं मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चार चरति । 'ता' तावत् जया णं' यदा खलु 'मुरिए' सूर्यः' अभितराणंतरं मंडलं' अभ्यन्तरानन्तरं द्वितीयं मण्डलम् 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति 'तया णं तदा खलु 'एगेणं राइदिएणं' एकेन रात्रिन्दिवेन एकाहोरात्रेण सर्वाभ्यन्तरमण्डलगतेन 'एगं भागं ओयाए' एक भागमोजसः 'दिवसखित्तस्स' दिवसक्षेत्रस्य दिवसक्षेत्रगतस्य 'णिव्वुढित्ता' निर्वयं हापयित्वा प्रथमक्षणादूवं शनैः शनैः कलामात्रहापनेन अहोरात्रस्य पर्यन्तभागे न्यूनीकृत्य, तथा एवमेव 'रयणिखेत्तस्स' रजनीक्षेत्रस्य रजनीक्षेत्रगतस्य ओजसस्तमेव एकं भागम् 'अभिवइढित्ता' अभिवयं च 'चारं चरई' चारं चरति मण्डलं कैच्छित्वा एक भागं हापयति वर्धयतीत्यत्राह 'मंडलं' मण्डलं सर्वाभ्यन्तराद् द्वितीयं मण्डलम् 'अट्ठारसहिं तीसेहिं सएहि' अष्टादशभिः त्रिंशता शतैः त्रिंशदधिकाष्टादशशतैः (१८३०) 'छित्ता' छित्त्वा विभज्य । अयं भावः-एकस्य मण्डलस्य त्रिंशदधिकाष्टादशशतभागाः कत्थ्यन्ते, तत्सम्बन्धिनमेकं भागमिति ।