SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०६ सू० १ ओजसंस्थितिनिरूपणम् १७७ अणुपलिओवममेव' तावत् अनुपल्योपममेव ।१७। 'ता अणुपलिओवमसयमेव' तावत् अनु. पल्योपमशतमेव ।१८। ता अणुपलिओवमसहस्समेव' तावत् अनुपल्योपमसहस्रमेव ।१९। 'ता अणुपलिओवमसयसहस्समेव तावत् अनुपल्योपमशतसहस्रमेव ।२०। 'ता अणुसागरोवममेव' तावत् अनुसागरोपममेव ।२१। 'ता अणुसागरोवमसयमेव तावत् अनुसागरोपमशतमेव ।२२। ता अणुसागरोवमसहस्समेव' तावत् अनुसागरोपमसहस्रमेव ।२३। 'ता अणुसागरोवमसयसहस्समेव' तावत् :अनुसागरोपमशतसहस्रमेव ।२४। 'एगे पुण' एके पञ्चविंशतितमाः परतीर्थिकाः पुनः ‘एवं' एवम्-वक्ष्यमाणप्रकारेण 'आइंसु' आहुः कथयन्ति 'ता' सावत् 'अणुउस्सप्पिणिओसप्पिणिमेव' अनुत्सर्पिण्यवसर्पिणीमेव प्रत्येकोत्सर्पिण्यवसर्पिणीकालमेव 'सरियस्स ओया' सूर्यस्य ओजः 'अण्णा' अन्यत् अपरं पूर्वस्थितम् 'अवेई' अपैति बिनश्यति 'एगे' एके पञ्चविंशतितमाः परमतवादिनः ‘एवं' एवं पूर्वप्रदर्शितप्रकारेण 'आइंसु' आहुः कथयन्ति । इति पञ्चविंशतिः प्रतिपत्तयः ।२५। इति, ___ इमाः पूर्वप्रदर्शिताः सर्वा अपि प्रतिपत्तयः मिथ्यारूपाः सन्ति मत आसां निराकरणेन भगवान् स्वमतमुपन्यस्यति-'वयं पुण' इत्यादि । 'वयं पुण' वयं तु 'एवं' एवं-वक्ष्यमाणप्रकारेण 'क्यामो' वदामः कथयामः, तदेवाह'ता तीसं' इत्यादि । 'ता' तावत् 'तीस तीस मुहुत्ते' त्रिंशतं त्रिंशतं मुहूर्त्तान् जम्बूद्वीपे प्रतिवर्ष परिपूर्णतया त्रिंशन्मुहूर्त्तपरिमितकालपर्यन्तम् 'सूरियस्स ओया' सूर्यस्य ओजः-प्रकाशः 'अवहिया भवई' अवस्थितं यथावस्थितं भवति । अयमाशयः-सूर्यसंवत्सरस्य पर्यन्तभागे यदा सूर्यः सर्वाभ्यन्तरमण्डले चारं चरति तदा सूर्यस्य जम्बूद्वीपगतमोजः त्रिंशतं मुहूर्तान् यावत् परिपूर्णप्रमाणयुक्तं भवति । 'तेणं परं तेन परं ततोऽनन्तरं सर्वाभ्यन्तरमण्डलात्परम् 'सूरियस्स ओया' सूर्यस्य ओजः 'अणवट्टिया' अनवस्थितं नियतप्रमाणरहितं 'भवइ' भवति । कस्मात् कारणादित्याह-'छम्मासे' इत्यादि । यतो हि सर्वाभ्यन्तरमण्डलात् अग्रे चरतः सूर्यस्य निष्क्रमणसमय गतान् प्रथमान् सूर्यसंवत्सरसम्बन्धिनः 'छम्मासे' षण्मासान् यावत् 'मरिए' सूर्यः 'ओयं ओजः जम्बूद्वीपगतं प्रकाशं 'णिव्वुड्ढेइ' निर्वर्धयति प्रत्यहोरात्रमेकैकस्य त्रिंशदधिकाष्टादशशत १८३० संख्यकभागसम्बन्धिनो भागस्य होनकरणेन हापयति । एवं तदनन्तरं सूर्यसंवत्सरस्य द्वितीयान् प्रवेशसमयगतान् 'छम्मासे' षण्मासान् यावत् षण्मासपर्यन्तमित्यर्थः 'सुरिए' सूर्यः 'ओय' ओजः प्रकाशम् 'अभिवडढेइ' अभिवर्धयति प्रत्यहोरात्रं त्रिंशदधिकाष्टा दशशत (१८३०) संख्यभागसत्कैकभागवर्धनेन तत्र वृद्धिं करोति । एतदेव स्पष्टयति-णिक्खममाणे' इत्यादि 'णिक्खममाणे' निष्क्रामन् सर्वाभ्यन्तरमण्डलाहिर्निर्गच्छन् 'मूरिए' सूर्यः २३
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy