SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १७६ चन्द्रप्राप्तिसूत्र व्याख्या -'ता' तावत् 'ते' तव भवतो मते 'कह' कथं-केन प्रकारेण किं सर्वदा एकरूपा उतान्यथा 'ओयसंठिई' भोजः संस्थितिः ओजसः प्रकाशस्य संस्थितिः-संस्थानम् अवस्था नमित्यर्थ 'आहिया' आख्याता कथिता ? 'ति वएज्जा' इति वदेत् हे भगवन् कथयतु । इति गौतममस्य प्रश्नः । अथ भगवान् एतद्विषये अन्यतैर्थिकानां मान्यतारूपा यावत्यः प्रतिपत्तयः सन्ति ताः प्रदर्शयति-'तत्थ' इत्यादि । 'तत्थ खलु' तत्र भोजः संस्थितिविषये खलु 'इमाओ' इमा अग्रे वक्ष्यमाणाः 'पणवीस' पञ्चविंशतिः 'पडिवत्तो' प्रतिपत्तयः परमतरूपा पण्णताओ' प्रज्ञप्ताः कथिताः 'तं जहा' तयथा ता यथा 'तत्थेगे' इत्यादि । 'तत्थ' तत्र पञ्चविंशति संख्यकेषु प्रतिपत्तिवादिषु 'एगे' एके केचन प्रथमाः ‘एवं' एवं वक्ष्यमाणपकारेण 'आहंसु' कथयन्ति, किं कथयन्तीति प्रदर्शयति-'ता अणुसमयमेव' इत्यादि 'ता' तावत् 'अणुसमयमेव' अनुसमयमेव प्रतिसमयमेव समये समये प्रतिक्षणमित्यर्थः 'मरियस्स' सूर्यस्य 'ओया' ओजः प्रकाशः, सूत्रे 'ओया' इति स्त्रीत्वं प्राकृतत्वात् 'अण्णा उप्पज्जई' अन्यत् उत्पद्यते' तथा 'अण्णा' अन्यत् अपरमेव औजः 'अवेइ' अपैति पृथक् भवति, अयं भावः सूर्यस्यौजः प्राक्तनं भिन्नप्रमाणमुत्पद्यते प्राक्तनाद् भिन्नमेव ओजः विनश्यति इति । उपसंहाग्माह-'एगे' एके प्रथमाः ‘एवं' एवं पूर्वोक्तप्रकारेण 'आइंसु' आहुः कथयन्तीति ।१। 'एगे पुण' एके द्वितीयाः पुनः ‘एवमाहंसु' एवं वक्ष्यमाणप्रकारेण आहुः-'ता' तावत् 'अणुमुहुत्तमेव' अनुमुहूर्तमेव प्रतिमुहूर्तमेव 'सरियस्स ओया' सूर्यस्य ओजः 'अण्णा उप्पज्जई' अन्यत् उत्पद्यते, 'अण्णा अवेई' अन्यत् यत् पूर्वमासीत् तत् अपैति विनश्यति, उपसंहारः-'एगे' एके द्वितीयाः ‘एवं' एवं पूर्वोक्तप्रकारेण 'आईसु' आहुः कथयन्ति ।२। 'एवं' एवम् ‘एएणं' एतेन आद्य प्रतिपत्तिद्वयप्रोक्तेन 'अभिलावेणं' अभिलापेन अभिलापप्रकारेण अग्रेऽपि विज्ञेयमिति भावः । तथा च-'ता' तावत् अणुराइदियमेव' अनुरात्रिन्दिवमेव प्रत्येकमहोरात्रमेव ।३। 'ता अणुपक्खमेव' तावत् अनुपक्षमेव ।४। 'ता अणुमासमेब' तावत् भनुमासमेव ।५।'ता अणुउउ मेव' तावत् अनुऋतुमेव प्रतिवसन्तादिरूपमेव ।६। 'ता अणुअयणमेव' तावत् अन्वयनमेव, अयनंनाम दक्षिणायनोत्तरायणरूपं द्वयम् ।७। 'ता अणुसंवच्छरमेव' तावत् अनुसंवत्सरमेव, संवत्सरः-द्वादशमासरूपः ।८। 'ता अणुजुगमेब' तावत् अनुयुगमेव पञ्चवर्षा त्मकयुगमेव ।९। 'ता अनुवाससयमेव तावत् अनुवर्षशतमेव ।१०। 'ता अणुवाससहस्समेव' तावत् अनुवर्षसहस्रमेव ॥११॥ ता अणुवाससयसहस्समेव' तावत् अनुवर्षशतसहस्रमेव अनुलक्षवर्षमेवेत्यर्थः ।१२। 'ता अणुपुव्वमेव' तावत् अनुपूर्वमेव ॥१३॥ ता अणुपुव्वसयमेव तावत् अनुपूर्वशतमेब ।१४। 'ता अणुपुन्बसहस्समेव तावत् अनुपूर्वसहस्रमेव, ।१५। 'ता अणुपुन्चसयसहस्समेव' तावत् अनुपूर्वशतसहस्रमेव, शतसहस्रमिति लक्षम् ।१६। 'ता.
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy