SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्तिप्रकाशिका टीका प्रा० ६ सू० १ भोजसंस्थितिनिरूपणम् १७५ भवति द्वाभ्यामेकष्टिभागमुत्तभ्यामधिका । स निष्क्रामन् सूर्यः द्वितीयेऽहोरात्रे आभ्य न्तरानन्तरं तृतीयं मण्डलमुपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः आभ्यन्तरानन्तरं तृतीयं मडण्लमुपसंक्रम्य चारं चरति तदा खलु द्वाभ्यां रात्रिन्दिवाभ्यां द्वौ भागौ ओजसा दिवसक्षेत्रस्य निर्वर्ध्य २ रजनी क्षेत्रस्य अभिवर्ध्य चारं चरति, मण्डलम् अष्टादशभिः त्रिशता शतैः छत्वा तदा खलु अष्टादशमुहूर्ती दिवसो भवति चतुर्भिरेक षष्टिभागमुहूर्तैः ऊनः द्वादशमुहूर्त्ता रात्रिर्भवति चतुर्भिरेकषष्टिभागमुहूर्तेरधिका । एवं खलु एतेन उपायेन निष्क्रामन् सूर्यः तदनन्तरात् तदनन्तरं मण्डलात् मण्डलं संक्रामन् २ पकैकस्मिन् मण्डलै एकैकेन रात्रिन्दिवेन पकैकं भागम् ओजसा दिवसक्षेत्रस्य निर्वर्धयन् २, रजनीक्षेत्रस्य अभिवर्धयन् २ सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः सर्वाभ्यन्तरात् मण्डलात् सर्वबाह्यं मण्डलमुपसंक्रम्य चारं चरति तदा खलु सर्वाभ्यन्तरं मण्डलं प्रणिधाय एकेन व्यशीतिकेन रात्रिन्दिवशतेन एकं व्यशीतिकं भागशतम् ओजसा दिवसक्षेत्रस्य निर्वर्ध्य, रजनीक्षेत्रस्य अभिवर्ध्य चारं चरति, मण्डलम् अष्टादशभिः त्रिशता शतैः छित्त्वा तदा खलु उत्तमकाष्ठा प्राप्ता उत्कर्षिका अष्टादशमुहूर्त्ता रात्रिर्भवति जघन्यकः द्वादशमुहूर्त्ता दिवसो भवति । पतत् खलु प्रथमं षण्मासम् । एतत् खलु प्रथमस्य षण्मासस्य पर्यवसानम् ॥ सः प्रविशन् सूर्यः द्वितीयं पण्मासम् अयन् प्रथमे अहोरात्रे बाह्यानन्तरं मण्डलम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः बाह्यानन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु एकेन रात्रिन्दिवेन एकं भागम् ओजसा रजनीक्षेत्रस्य निर्वर्ध्य दिवसक्षेत्रस्य अभिवर्ध्य चारं चरति, मण्डलम् अष्टादशभिस्त्रिशता शतैः छित्त्वा तदा खलु अष्टदशमुहूर्त्ता रात्रिभवति द्वाभ्यासेकषष्टिभागमुहूताभ्याम् ऊना द्वादशमुहूर्त्ती दिवसो भवति द्वाभ्यामेकपष्टिभागमुहूर्त्ताभ्याम् अधिकः । स प्रविशन् सूर्यः द्वितीये अहोरात्रे बाह्यानन्तरं तृतीयं मण्डलम्वसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः बाह्यानन्तरं तृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा खलु द्वाभ्यां रात्रिदिवाभ्यां द्वौ भागौ ओजसा रजनीक्षेत्रस्य निर्वर्ध्य, दिवसक्षेत्रस्य अभिवर्ध्य चारं चरति, मण्डलम् अष्टादशभिः त्रिंशता शतैः छिवा, तदा खलु अष्टादशमुहर्त्ता रात्रिर्भवति चतुर्भिरेक षष्टिभागमुहूतैरूना, द्वादशमुहूर्ती दिवसो भवति चतुभिरेकषष्टिभाग रधिकः । एवं खलु एतेन उपायेन प्रविशन् सूर्यः तदनन्तरात् तदनन्तरं मण्डलाद् मण्डलं संक्रामन् २ एकैकेन रात्रिन्दिवेन एकैकं भागम् ओजसा रजनीक्षेत्रस्य निर्वर्ध्य २, दिवसक्षेत्रस्य अभिवर्ध्य २ सर्वाभ्यन्तरं मण्डलं उपसंक्रम्य वारं चरति । तावत् यदा खलु सूर्यः सर्वबाह्यात् मण्डलात् सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु सर्वबाह्यं मण्डलं प्रणिधाय पकेन त्र्यशीतिकेन रात्रिन्दिवशतेन एकं त्र्यशीतिकं भागशतम् ओजसा रजनीक्षेत्रस्य निर्वर्ध्य दिवसक्षेत्रस्य अभिवर्ध्य चारं चरति, मण्डलम् अष्टादशभिः त्रिंशता शतैः छित्त्वा तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षकः अष्टादशमुहूर्ती दिवसो भवति, जघन्यिका द्वादशमुहूर्त्ता रात्रिर्भति । पतत् खलु द्वितीयं षण्मासम् । एतत् खलु द्वितीयस्य षण्मासस्य पर्यवसानम् । एष खलु आदित्यः संवत्सरः । एतत् खलु आदित्यस्य संवत्सरस्य पर्यवसानम् ॥ सू० १ ॥ || चन्द्रप्रज्ञप्त्यां षष्ठं प्राभृतं समाप्तम् ६ ॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy