________________
बन्द्राप्तिप्रकाशिका टीका प्रा० ४ सू० ३ तापक्षेत्रसंस्थितिनिरूपणम् १६५ दिवस परिमाणमायाति तावत्-वक्तव्यम् । तदेवाह--'तया गं' तदा खलु 'उत्तमकहपत्ता' उत्तमकाष्ठा प्राप्ता 'उक्कोसिया' उत्कर्षिका 'अट्ठारसमुहुत्ता राई भवई' अष्टादशमुहूर्ता रात्रिभवति, 'जहष्णए' जघन्यकः सर्वलघुः 'दुवालसमुहुत्ते दिवसे भवई' द्वादशमुहूर्तो दिवसो भवति, इत्यालापकपर्यन्तं सर्वे पूर्वोक्तं प्रकरणमत्र बोच्यम् । विशेषः केवलमयम्-यत् तत्र अष्टादशमुहूर्तों दिवसः द्वादशमुहूर्ता रात्रिः कथिता, अत्र तु अष्टादशमुहूर्ता रात्रिर्वादशमुहूत्र्तो दिवसो भवतीति प्रदर्शितमेवेति । तत्रत्या सूत्ररचनात्वेवम् – 'उद्धीमुहकलंबुयापुप्फसठिया तावखेत्तसंठिई उर्ध्वमुखकलबुकापुष्पसंस्थिता तापक्षेत्रसंस्थितिरित्युक्तम्, सा च-'अंतो संकुडा बाहि वित्थडा, अंतो वट्टा बाहिं पिहुला, अंतो अंकमुहसंठिया बाहिं सत्थियमुहसंठिया, उभो पासेणं तीसे दुवे बाहाओ अवटियाओ०" इत्यादि, सर्वोऽपि पाठोऽत्र पठनीयः, विस्तरभयाद् विरम्यते। एषां व्याख्याऽपि तत्र विलोकनीया विस्तरजिज्ञासुभिः सूर्यप्रज्ञप्तिसूत्रस्य मत्कृतायां सूर्य ज्ञप्तिप्रकाशिकाटीकायां विलोकनीयम् । तत्रायं सर्वोऽपि पाठः संगृहीत इति । यत् तापक्षेत्रचिन्तायां मन्दरपरिरयादेख्भ्यां गुणनं कृतं तत् अन्धकारचिन्तायां त्रिभिर्गुणनं कृतम्, ततोऽनन्तरं विभाजनं तूभयत्रापि दशभिरेव कृतम् । तथा सर्वबाह्यमण्डले चारं चरतः सूर्यस्य लवणसमुद्रमध्ये तदनुरोधात् तापक्षेत्रं पञ्चहनयोजनपरिमितं भवति, अन्धकारश्चायामतो वर्धतेऽतः स व्यशीतिसहस्रयोजनपरिमितः कथित इति ।
उक्तं च तापक्षेत्रसंस्थितेः, अन्धकारसंस्थितेश्च परिमाणम् । अथ च जम्बूद्वीपे द्वौ सूर्यो ऊर्ध्वमधः, पूर्वाऽपरे च विभागे कियत्क्षेत्रं तापयतः : इति तन्निरूपणार्थमाह—ता जंबुद्दीवेणं दीवे' इत्यादि ।
__'ता' तावत् 'जंबुद्दीवेणं दीवे' जम्बूद्वीपे खल द्वीपे 'सूरिया' सूर्यों द्वौ सूर्यों प्रत्येक 'केवइयं खेत्तं' कियत्कं कियत्प्रमाणं क्षेत्रम् ‘उड्ढं तवेंति' ऊवं तापयतः प्रकाशयतः, । 'केवइयं खेत्तं कियत्कं कियत्प्रमाणं क्षेत्रम् 'अहे' अधः 'तवेंति' तापयतः । 'केवइयं खेत्तं' कियत्कं कियप्रमाणं क्षेत्रम् 'तिरियं तवेंति' तिर्यक् तापयतः । इति प्रश्ने कृते भगवानाह-'ता' इत्यादि 'ता' तावत् 'जंबुद्दीवे णं दीवे' जम्बूद्वीपे खलु द्वीपे 'मरिया' द्वौ सू? प्रत्येकम् ‘एगं जोयणसयं' एक योजनशतम् एकशतयोजनपर्यन्तम् ‘उड्ढं' ऊर्ध्व स्वविमानाद् ऊर्श्वभाग 'तवेंति' तापयतः, 'अट्टारस जोयणसयाई' अष्टादशयोजनशतानि अष्टादशशतयोजनपर्यन्तम् 'अहे' अधः स्वविमानादधोभागे अधोलोकग्रामापेक्षया 'तति' तापयतः, तथा 'सीयालीसजोयणसहस्साई' सप्तचत्वारिंशयोजनसहस्राणि सप्तचत्वारिंशत्सहस्रयोजनानि 'दुन्निय तेवढे जोयणसयाई द्वे च त्रिषष्टिः योजनशते त्रिषष्टयधिकद्विशत योजनानि 'एक्कवीसं च सद्विभागे जोयणस्स' एकविंशति च