SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ चन्द्रमशसिस्शे तवेंति, सीयालीसं जोयणसहस्साई दुन्नि य तेवड्ठे जोयणसए एकवीसं च सद्विभागे जोयणस्स तिरियं तवेंति ॥सू० ३॥ चंदपन्नत्तीए चउत्थं पाहुडं समत्तं ॥४॥ छाया-तावत् यदा खलु सूर्यः सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति तदा खलु किंसंस्थिता तापक्षेत्रसंस्थितिः आख्याता ? इति वदेत् । तावत् ऊर्ध्वमुखकलम्बुकापुष्पसंस्थिता तापक्षेत्रसंस्थितिः आख्याता, इति वदेत् । एवं यत् अभ्यन्तरमण्डले अन्ध. कारसंस्थित्तेः प्रमाणं तबाह्यमण्डके तापक्षेत्रसंस्थितेः प्रमाणम् यत् तत्र तापक्षेत्रसंस्थितेः प्रमाणं तद् बाह्यमण्डले अन्धकारसंस्थितेः प्रमाणं भणितव्यम् यावत् तदा खलु उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहूर्ता रात्रिर्भवति, जघन्यकः द्वादशमुहूर्तो दिवसो भवति । तावत् जम्बूद्वीपे खलु द्वीपे सूर्यो कियत्कं क्षेत्रम् ऊर्ध्व तापयतः ? कियत्कं क्षेत्रम् अधः तापयतः। कियत्कं क्षेत्र तिर्यग्तापयतः। तावत् जम्बूद्वीपे खलु द्वीपे सूर्यो एक यो जनशतम् अवं तापयतः, अष्टादशयोजनशतानि अधः ताफ्यतः, सप्तचत्वारिंशद्योजनसहस्राणि द्वे त्रिषष्टिः योजनशते एकविंशतिं च षष्टि भागान् योजनस्य तिर्यक् तापयतः। सू०३॥ चन्द्रपज्ञप्त्यां चतुर्थ पाभृतं समाप्तम् ॥४॥ व्याख्या-'ता' तावत् 'जया णं' यदा खल्ल 'मूरिए' सूर्यः 'सव्वबाहिरं मंडलं उवसंकमिता चारं चरई' सर्वबाह्यं मण्डलमुपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'कि संठिया तावक्खेत्तसंठिई आहिया' किं संस्थिता कीदृक् संस्थानवती तापक्षेत्रसंस्थितिराख्याता 'तिवएज्जा' इति वदेद् बदतु हे भगवन् एवं गौतमेन प्राने कृते भगवानाह-'ता' तावत् 'उद्धीमुहकलंबुया पुप्फसंठिया तापक्खेत्तसंठिई आहिया' ऊर्ध्वमुखकलम्बुकापुष्पसंस्थिता तापक्षेत्रसंस्थितिराख्याता" 'तिवएज्जा' इति वदेत् स्वशिष्येभ्यः अथ पूर्वसूत्रातिदेशमाह-'एवं' इत्यादि । 'एवं' एवं पूर्वोक्तप्रकारेण 'ज' यत् 'अभितरमंडले' सर्वाभ्यतरमण्डले सूर्यस्य चारसमये 'अंधयारसंठिईए पमाणं' अन्धकारसंस्थितेः प्रमाणमुक्तम् 'त' तत् प्रमाणं 'बाहिरमंडले' सर्वबाह्यमण्डले सूर्यस्य चारसमये 'ताबक्खेतसंठिईए' लापक्षेत्रसंस्थितेः 'पमाणं' प्रमाणं विज्ञेयम् । 'ज' यत् 'तहिं' तत्र सर्वाभ्यन्तरमण्डले सूर्यस्य चार समये 'तावक्खेत्तसंठिईए पमाणं' तापक्षेत्रसंस्थितेः प्रमाणमुक्तम् 'त' तत् 'बाहिरमण्डले' सर्वबाह्यमण्डले सूर्यस्य चारसमये 'अंधकारसंठिईए' अन्धकारसंस्थितेः 'पमाणं' प्रमाणं ज्ञातव्यम् । सर्वाभ्यन्तरमण्डगतेसूर्ये यत् अन्धकारसंस्थितिप्रमाणं तत् बाह्यमण्डलगते स्यें तापक्षेत्रस्य प्रमाणं बोच्यम् । यत् सर्वाभ्यन्तरमण्डले सूर्यस्य चारसमये तापक्षेत्रसंस्थितिप्रमाणं लदत्र बाघमण्डलेअन्धकारसंस्थितिप्रमाण बोध्यम् । सर्वाभ्यन्तरसर्वबाह्यमण्डयोः परस्परमन्धकारतापक्षेत्रसंस्थितिप्रमाणं वैपरोल्येन सदृशं विज्ञेयमितिभावः । इदं प्रकरणं पूर्वोक्तं कियत्पर्यन्तं बोध्यम् ! तदेवाह-'जाच' इत्यादि, 'जा' यावत् वक्ष्यमाणं रात्रि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy