SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १६२ चन्द्रप्राप्तिसूत्रे अनुसंधेयम्, तथाहि—'दसहिं छित्ता दसहि भागे हीरमाणे एस णं परिक्खेवविसेसे आहिएति वएज्जा' छाया-दशभिश्छित्त्वा, दशभिर्भागे हियमाणे एष खलु परिक्षेपविशेष आख्यात इति वदेत् । किगर्थ द्वाभ्यां गुणनम् ! दशभिश्च भागहरणम् ? इति चे दाह इह द्वयोः सूर्ययोः सर्वाभ्यन्तरमण्डलचरणसमये एकस्यापि सूर्यस्य जम्बूद्वीपगतचक्रवालस्य यस्मिन् तस्मिन् वा प्रदेशे यत्तच्चक्रवालक्षेत्रानुसारेण त्रयोदशभागाः प्रकाश्याः स्युः, तत उभयसंयोगे दशभागाः षड् भवन्ति, तेषां प्रत्येकं त्रयाणां त्रयाणां दशभागानामपान्तराले द्वौ द्वौ दशभागौ रजनी भवतः, ततः कारणात् द्वाभ्यां गुणनं कथितम् । तौ च द्वौ दशभागाविति दशभिर्भागहरणं कथितम्। 'सेसं तहेव' शेषं तथैव पूर्ववदेव' अथ सर्वबाह्यबाहा विषये प्राह-'तीसेणं' तस्याः खलु अन्धकारसंस्थितेः 'सव्वबाहिरिया बाहा' सर्वबाह्या बाहा 'लवणसमुदंतेणं' लवणसमुद्गान्ते लवणसमुद्रसमीपे जम्बूद्वीपपर्यन्तभागे 'तेवढि जोयणसहस्साई' त्रिषष्टिजोयनसहस्राणि 'दोण्णि य पणयाले जोयणसयाई द्वे पञ्चचत्वारिंशते योजनशते पश्चचत्वारिंशदधिके द्वे शते 'छच्च दसभागे जोयणस्स' षड् च दशभागान् योजनस्य (६३२४५.३) यावत् 'परिक्खेवेणं' परिक्षेपेण जम्बूद्वीपपरिरयपरिक्षेपेण 'आहिया' आख्याता ति वएज्जा' इति वदेत् । पुनीतमः स्वशिष्याणां स्पष्टावबोधार्थ प्रश्नयति—'ता से गं' इत्यादि । 'ता' तावत् 'से गं' स खलु अन्धकारसंस्थितेः 'परिक्खेवविसेसे' परिक्षेपविशेषः 'कओ' कुतः कस्मात् कारणात् 'आहिए' माख्यातः ? 'ति वएज्जा' इति वदेत्-वदतु कथयतु हे भगवन् ! एवं गौतमेन प्रश्ने कृते भगवान् तदर्शयति-'ता जेणं' इत्यादि । 'ता' तावत् 'जे णं' यः खलु 'जंबुद्दीवस्स दीवस्स' जम्बूद्वीपस्य द्वीपस्य 'परिक्खेवेणं' परिक्षेपः पूर्वप्रदर्शितः 'तं परिक्खेवं' तं परक्षेपम् 'दोहि गुणित्ता' द्वाभ्यां गुणयित्वा 'दसहिं छेत्ता' दशभिश्छित्वा दशभिर्विभज्यते इति भावः ततः 'दसहिं भागे होरमाणे' दशभिर्भागे हियमाणे यो राशिर्लभ्यते 'एस'णं' एष खलु-परिक्खेवविसेसे' परिक्षेपविशेषः अन्धकारसंस्थितेः 'आहिए' आख्यातः 'ति वएज्जा' इति वदेत् स्वशिध्येभ्यः । अस्य कारणं पूर्वं प्रदर्शितमेव । तथा च तद्दीते-जम्बूद्वीपस्य परिक्षेपपरियाणम् अष्टाविंशत्यधिकशतद्वयोत्तरषोडशसहस्राधिकानि त्रीणि लक्षाणि (३१६२२८) एष राशिभ्यां गुण्यते जातानि अस्य द्विगुणानि षड् लक्षाणि षट्पञ्चाशदधिकचतुःशतोत्तरद्वात्रिंशत्सहस्राधिकानि (६३२४५६) एषामङ्कानां दशभिर्भागो हियते तदा लब्धानि पश्चचत्वारिंशदधिकद्विशत्तोत्तराणि त्रिषष्टि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy