________________
चन्द्रज्ञप्तिप्रकाशिका टीका प्रा०४ सू०२
तापक्षेत्र संस्थिति निरूपणम् १६९
योजन परिमितः, स जम्बूद्वीपपरिमाणात् शोध्यते ततो भवेयुः नवतिसहस्रयोजनानि, एष भागद्वयकरणे एकस्य भागस्य लभ्यन्ते पञ्चचत्वारिंशत्सहस्र योजनानीति ।
उक्तं तापक्षेत्रपरिमाणं, साम्प्रतं सर्वाभ्यन्तरमण्डलमाश्रित्यान्धकारसंस्थितिं प्रतिपादयन्नाह - 'तया णं' इत्यादि -
'तया णं' तदा खलु सूर्यस्य सर्वाभ्यन्तरमण्डलचारसमये 'किं संठिया' किं संस्थिताकीदृक्संस्थानवती 'अंधगारसंठिई' अन्धकारसंस्थितिः 'आहिया' आख्याता ? 'ति वएज्जा' इति वदेत् वदतु हे भगवन् ? भगवानाह - 'ता' तावत् 'उद्धीमुहकलबुया पुष्कसंठिया' उर्ध्वमुखकलम्बुका पुष्पसंस्थिता 'तहेत्र जाब बाहिरिया वेब बाहा' तथैव यावत् बाह्याचैव बाहा तथैव पूर्वोक्तवदेवात्र पाठो ग्राह्यः । कियत्पर्यम्तमित्याह - यावत् बाह्या चैव बाहा, तत्रत्य प्रकरणं चेत्थम् - आख्याता इति वदेत् कीदृशी सा अन्धकारसंस्थिति: ? अत्राह तथा च तत्पाठ:- 'अंतो संकुडा बाहिं बित्थडा, अंतो वा बार्हिपिहुला, अंतो अंकमुहसंठिया, बाहिं सस्थियमुहसंठिया, उभओ पासेणं तीसे दुवे बाहाओ अवट्टियाओ भवंति पणयालीसं पणयालीसं जोषणसहस्साई आयामेणं, तीसे दुबे बाहाओ - अणवट्टियाओ भवंति, तंजहा - सव्वन्तरिया चैव बाहा सव्वबाहिरियाचेव बाहा "
,
एषां पदानामर्थः पूर्वव्याख्यातः, स तत्र विलोकनीयः ।
द्वे वाहे अत्र अन्धकारसंस्थितैर्ज्ञातव्ये, इति विशेषः । तयोर्द्वयोर्बाहयोर्मध्ये प्रथमं सर्वाभ्यन्तराया वाहाया विष्कम्भमाश्रित्य परिमाणमाह- 'तीसे णं' इत्यादि ।
'तीसे णं' तस्या अन्धकार संस्थितेः खलु सव्वग्भतरिया वाहा' सर्वाभ्यन्तरा बाहा या 'मंदरपव्वयं तेण' मन्दरपर्वतान्ते मन्दरपर्वतसमीपे वर्तते सा 'छज्जोयणसहस्साई' षड् योजनसहस्राणि षट्सहस्रयोजनानि 'तिण्णि य चउवीसे' जौयणसयाई, त्रीणि च चतुर्विंशतिः योजनशतानि चतुर्वि ंशत्यधिकत्रिशतयोजनानि 'छच्च दसभागे जोयणस्स' षट् च दशभागान् योजनस्य ६ ६३२४. 'परिक्खेवेणं' परिक्षेपेण 'आहिया' आमाता 'ति वएज्जा' इतिवदेत् कथयेत् १० स्वशिष्येभ्य इति । अत्र गौतमः पृच्छति 'ता से णं' इत्यादि । 'ता' तावत् 'से णं' स खलु पूर्वोक्तः 'परिक्खेव बिसेसे' परिक्षेपविशेषः 'कओआहिए' कुतः कस्मात्कारणात् आख्यातः ! 'तिव एज्जा' इति वदेत् वदतु हे भगवन् ! | भगवानाह - हे गौतम : 'ता' तावत् 'जेणं' यः खलु 'मंदरस्स पव्वयस्स परिक्खेचे' मन्दरस्य पर्वतस्य परिक्षेपः प्राक् प्रतिपादितप्रमाणोऽस्ति 'तं परिक्खेवं' तं परिक्षेपम् ' दोहिं गुणित्ता' द्वाभ्यां गुणयित्वा 'सेसं तहेव' शेषं तथैव पूर्ववदेव
२१