________________
चन्द्रातिसूत्रे मवलक्षाणि (९४८६८४) एतेषां दशभिर्भागे ढ़ते लभ्यते यथोक्तं जम्बूद्वीपपर्यन्ते२, सर्वबाह्याबाहाया विष्कम्भपरिमाणम्-(९४८६८,१) इति ।
तदेवमुक्त जम्बूद्वीपे तापक्षेत्रसंस्थितेः सर्वाभ्यन्तराया सर्वबाह्यायाश्च बाहाया विष्कम्भपरिमाणम् । साम्प्रतं सामस्त्येन तापक्षेत्रपरिमाणमायामतः कियत् ? इति जिज्ञासायामाह--- 'ता सेणं' इत्यादि ।
____ 'ता' तावत् 'से णं' तत् खलु ‘तावखेत्ते' तापक्षेत्रं 'केवइयं' कियत्कं । कियत्प्रमाणकम् 'भागामेणं' आयामेन सामस्त्येन दक्षिणोत्तरायततया 'आहियं' आख्यातम् । 'तिवएज्जा' इति वदेत् वदतु हे भगवन् । भगवानाह-'ता अत्तरि' इत्यादि । 'ता' तावत् 'अत्तरि' मासप्ततिं 'जोयणसहस्साई' योजनसहस्राणि अष्टसप्ततिसहस्रयोजनानि 'तिण्णि य तेत्तीसं बोयणसयाई' त्रीणि त्रयस्त्रिंशतं योजनशतानि त्रयस्त्रिंशदधिकत्रिशतयोजनानि 'जोषणतिभागं च' योजनत्रिभागं च एकस्य योजनस्य तृतीयं भागं यावत् ७८३३३१) योजनत्रिभागं 'जोयण तिभागं च' आयामेय दक्षिणोत्तरायतया 'आयामेणं' मायामेन दक्षिणोत्तरायतया 'आहिय' आख्यातं कथितम् 'ति वएज्जा' इति वदेत् स्वशिष्येभ्यः ।
मयमाशयः-सर्वाभ्यन्तरे मण्डले यदि सूर्यश्चारं चरति तदा तस्य तापक्षेत्रं दक्षिणोत्तरायततामाश्रित्य मेरोर्मध्यभागाद् आरभ्य यावत् लवणसमुद्रस्य षष्ठो भागो भवेत् तावद् वर्षते, भत्रार्थे चाह
मेरुस्सममभागा, जाव य लवणस्स रुंदछब्भागा ।
तावायामो एसो, सगडुद्धी संठिओ नियमा ॥१॥ छाया-मेरोमध्यभागात् यावच्च लवणस्य रुंद षड्भागाः ।
तापायामः, एष शकटो द्विसंस्थितो नियमात् ॥१॥ इति । एषः तापक्षेत्रस्यायामः । तत्र मेरोरारभ्य जम्बूद्वीपपर्यन्तभागं यावत् पञ्चचत्वारिंशत्सहस्रयोजनानि (४५०००) लवणसमुद्रस्य विस्तारश्च द्विलक्षयोजनानि, एषां षष्ठो भागः षष्ठेन भागहरनात् लब्धः त्रयस्त्रिंशत्सहस्रयोजनानि, त्रयस्त्रिंशदधिकशतत्रयोत्तराणि योजनस्य च त्रिभागः
ततोऽस्यां संख्यायां पञ्चचत्वारिंशत् सहस्रयोजनानां संमेलने जातं यथो
कम् (७८३३३१) आयामपरिमाणम् । मेरोरारभ्य जम्बूद्वीपपर्यन्तभागं यावत् पश्चचत्वारिशसंहनयोजनानि कथं स्युरित्याह-जम्बूद्वीपपरिमाणमेकलक्षयोजनकम् तस्मात् मेरोर्भागः-दशसहन