SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ चन्द्रश्चप्तिप्रकाशिका टीका प्रा० ३ सू० २ तापक्षेत्रसंस्थितिनिरूपणम् १५९ नवच दश भागा योजनस्य(९४८६ २) इति लब्धं यथोक्तं मन्दरसमीपें तापक्षेत्रपरिमाणमिति, उक्तञ्चान्यत्रापि-'मंदरपरिरयरासी, तिगुणे दसभाइयमिज लद्धं । त होइ तावखेतं अभितरमंडले रविणो ॥१॥ इति । छोया-मन्दरपरिरयराशौ, त्रिगुणिते दशभाजिते यल्लब्धम् । तद्भवति तापक्षेत्रं, अभ्यन्तरमण्डले रवेः॥१॥ इति । उक्तं च सूर्यस्य सर्वाभ्यन्तरमण्डलस्थितिसमये मन्दरसमीपे तापक्षेत्रसंस्थितेः सर्वाभ्यन्तरबाहाया विष्कम्भपरिमाणम् । अथ च लवणसमुद्रदिशि जम्बूद्वीपपर्यन्ते स्थितायाः सर्वगाया बाहाया विष्कम्भपरिमाणमाह-'तीसे णं' इत्यादि, 'तीसे ण' तस्याः खलु तापक्षेत्रसंस्थितेः 'सव्वबाहिरिया बाहा' सर्वबाह्या बाहा 'लवणसमुईने णं' लवणसमुद्रान्ते 'चउणउइं जोयणसहस्साई चतुर्नवतियोंजनसहस्राणि 'अट्ठय अद्वसहे जोयणसयाई' अष्ट च अष्टषष्ठि योजनशतानि अष्टषष्टयधिकानि अष्टशतयोजनानि 'चत्तारि य दमभागे जोयणस्स' चतुरश्चदशभागान् योजनस्य (९४८६८१) यावत् 'परिक्खेवेणं' परिक्षेपेण जम्बूद्वीपपरियपरिक्षेपेण 'आहिया' आख्याता 'ति वरज्जा' इति वदेत् । अथास्य स्पष्टबोधार्थ गौतमः प्रश्नयति-ता से गं' इत्यादि, 'ता' तावत् 'से णं' स खलु एतावान् परिक्षेपविशेषस्तापक्षेत्रसंस्थितेः 'कओ आहिए' कुत आख्यातः कस्मात्कारणात् कथितः 'ति वएज्जा ' इति वदेत् वदतु भगवन् । इति गौतमेन प्रश्ने कृते तदेव भगवान् ददर्शयति-ता जेणं' इत्यादि, 'ता' तावत् 'जेणं' यः खलु जम्बूद्वीपस्य परिक्षेपः परिरयगणितप्रसिद्धः 'परिक्खेवविसेसे' परिक्षेपविशेषः अस्ति 'तं परिक्खेवं' तं परिक्षेपम् 'तिहिं गुणित्ता' त्रिभिर्गुणयित्वा 'दसहिं छित्ता' दशभिछित्त्वा दशभिर्भागं द्वत्वा, दशभिर्विभज्यते इति भावः, 'दसहि भागे हीरमाणे' दशभिभागे हियमाणे दशभिर्विभाजिते सति यो राशिलभ्यते 'एस णं' एष : भागलब्धः खलु 'परिक्खेवविसेसे' परिक्षेविशेषः 'आहिए' आख्यातः। एतच्च यथोकं जम्बूद्वीपपर्यन्ते लवणदिशि तापक्षेत्रपरिमाणं भवति 'ति वएज्जा' इति वदेत् कथयेत् स्वशिष्येभ्य इति । तद्गणितविधिश्चेत्थम्-जम्बूद्वीपस्य परिक्षेपः-सप्तविंशत्यधिकद्विशतोत्तरषोडशसहस्राधिकानि त्रीणि लक्षाणि योजनानाम् (३१६२२७) तदुपरि गव्यूतत्रयम् (३) अष्टाविंशत्यधिकमेकं धनुः शतम् (१२८) सार्धत्रयोदशाङ्गुलानि (१३॥) च' मत्र निश्चयत एकं योजनं किञ्चिन्न्यूनं वर्त्तते किन्तु व्यवहारतः अष्टाविंशत्यधिकं एतद्वयं परिपूर्ण विज्ञेयं ततः-अष्टाविंशत्यधिकशतद्वयोत्तरषोडशसहस्राधिकानि त्रीणि लक्षाणि योजनानां (३१६२२८) जम्बूद्वीपपरिधिर्महीतव्यः । एषा संख्या त्रिभिर्गुण्यते जातानि-चतुरशीत्यधिकषट्शताधिकाष्टाचत्वारिंशत्सहस्रोत्तराणि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy