________________
चन्द्रप्रज्ञप्तिसूत्र वाच्यः । 'तीसेणं' तस्या तापक्षेत्रसंस्थितेः खलु 'सव्वन्भंतरिया बाहा' सर्वाभ्यन्तरा बाहा 'मंदरपब्वयंते णं' मन्दरपर्वतान्ते मेरुपर्वतसमीपे तत्परिक्षेपगततया 'नव जोयणसहस्साई' नव योजनसहस्राणि 'चत्तारि य छअसीई जोयणसयाई' चत्वारि षडशीतिः योजनशतानि षडशीत्यधिकानि चतुःशतयोजनानि 'नव य दसभागे जोयणस्स' नव च दशभागान् योजनस्य (९४८६ ) परिक्खेवेणं' परिक्षेपेण परिधिना पूर्वोक्तपरिधिवती सर्वाभ्यन्तरा बाहा मेरु पर्वतसमीपे 'आहिया' आख्याता 'ति वएज्जा' इति वदेत् स्वशिष्येभ्य इति । गौतमः पुनः प्रश्नयति-ता सेणं' इत्यादि । 'ता तावत् हे भगवन् 'से गं' सः तापक्षत्रसंस्थितिविषयः खलु 'परिक्खेवविसेसे' परिक्षपविशेषः मन्दरपरिरय-परिक्षेपणविशेष इत्यर्थः 'को' कुतः कस्मात् कारणात् इयत्परिमितः 'आहिए' माख्यातः ? 'ति वएज्जा' इति वदेत् वदतु कथयतु भवान् हे भगवन् । भगवानाह-'ता जे गं' इत्यादि । 'ता' तावत् 'जेणं' यः खलु 'मंदरस्स पन्वयस्स' मन्दरस्य पर्वतस्य 'परिक्खेवे' परिक्षेपः परिरयगणितसिद्धः त्रयोविंशत्यधिकषट्शतोत्तरैकत्रिंशत्सहस्र (३१६२३) परिमितो वर्तते 'तं परिक्खेवं तं परिक्षेपं 'तिहिं गुणित्ता' त्रिभिर्गुणयित्वा ततः 'दसहिं छित्ता' दशभिन्छित्त्वा-विभज्य भागं हत्वा दशभिर्विभज्यते इति भावः 'दसहिं भागे हीरमाणे'दशभिर्भागे हियमाणे यो राशिर्लभ्यते 'एस गं' एष खलु राशिः (९४८६. 'परिक्खेवविसेसे' परिक्षेपविशेषः मन्दरसमीपे तापक्षेत्रपरिमाणमागच्छति, कस्मादेवं क्रियते ! इति चेदाह-इह सर्वाभ्यन्तरे मण्डले यदा सूर्यो वर्तते तदा जम्बूद्वीपसम्बन्धिनश्चक्रवालस्य यत्र तत्र प्रदेशे तत्तच्चक्रवालक्षेत्रप्रमाणानुसारेण त्रीन् दशभागान् (२) प्रकाशयतीति पूर्वमेवोक्तम् । साम्प्रतं मन्दरसमीपगततापक्षेत्रचिन्ता क्रियतेऽतः प्रथमं यथा मन्दरपरिरयः सुखेनावबुध्यते तदर्थमेवं क्रियते इति । तथा हि गणितप्रकारः-मन्दरपर्वतस्य विष्कम्भपरिमाणं दशसहस्रयोजन(१००००) परिमितम् । अस्य वर्गः क्रियते, या संख्या भवेत् सा तत्परिमितसंख्ययैव गुणनेनवर्गों भवति । एवं वर्गे कृते जाता दशकोट्यः (१००००००००) एकाङ्कोपरि अष्टशून्यानि, तासां दशकोटिकानां दशभिर्गुणने एक शून्यं दशकोट्याउपरिवर्धते तेन जातं कोटिशतम् (१००००. ०००००) एकाङ्कोपरि नवशून्यानि । अस्य राशेरासन्नवर्गमूलानयने लब्धानि किञ्चिन्यून त्रयोविंशत्यधिकषट्शतोत्तराणि एकत्रिंशत्सहस्राणि-(३१६२३) निश्चयतः, व्यवहारतस्तु परिपूर्णानीति विवक्ष्यते, अयं राशिस्त्रिभिर्गुण्यते तदा जायन्ते चतुर्नवतिसहस्राणि एकोनसप्तत्यधिकानि अष्टशतानि (९४८६९) एषां दशभिर्भागे हृते लभ्यन्ते षडशीत्यधिकचतुःशतोत्तराणि नवसहस्रयोजनानिशेषा