________________
बन्द्रातिप्रकाशिका टीका प्रा०-३२०२
तापक्षेत्रसंस्थितिनिरूपणम् १५७ संठिया' अन्तः अङ्कमुखसंस्थिता, अन्तः मेरुदिशि अङ्कः उत्सङ्गः स च पद्मासनोपविष्टस्य तद्रप आसनवन्धः, तस्य मुखम् अग्रभागः अर्धवलयाकारस्तदाकारवत्संस्थानं यस्याः सा तथा, 'बाहिं सत्थियमुहसंठिया' बहिः स्वस्तिकमुखसंस्थिता बहिर्लबणसमुद्रदिशि स्वस्तिकः मङ्गलाकृतिविशेषः प्रसिद्धः, तस्य मुखम् अग्रभागः तस्येवातिविस्तीर्णतया संस्थानेन संस्थिता । 'उभो पासेणं' उभयतः पार्श्वन मेरोरुभयोः पार्श्वयोः 'तीसे' तस्यास्तापक्षेत्रसंस्थितेः सूर्यभेदेन द्विधाऽवस्थितायाः 'दुवे बाहाओ' द्वे बाहे प्रत्येकमेकैकभावेन 'अवट्ठियाओ भवंति' अवस्थिते भवतः जम्बूद्वीपगतमायाममाश्रित्यावस्थिते इतिभावः। सा एकैका बाहा कियत्प्रमाणा ? इत्याह'पणयालीसं' इत्यादि । 'पणयालीस पणयालीसं' प्रत्येकं बाहा पञ्चचत्वारिंशत् पञ्चत्वारिंशद् योजनसहस्राणि (४५०००) आयामेन । तथा 'तीसे' तस्याः तापक्षेत्रसंस्थितेकैकस्याः 'दुवे बाहाओ' द्वे बाहे 'अणवटियाओ भवंति' अनवस्थिते भवतः 'तं जहा' तद्यथा ते यथा'सम्बन्भंतरिया चेव सम्बबाहिरिया चेव' सर्वाम्यन्तरा चैव बाहा सर्वबाह्या चैव बाहा, तत्र सर्वाभ्यन्तरा या मेरुमसीपे विष्कम्भमधिकृत्य बाहा सा, सर्वबाह्या च या लवणदिशि जम्बूद्वीपपर्यन्तभागे विष्कम्भमधिकृत्य बाहा सा । अत्र आयामः दक्षिणोत्तरायतत्वमाश्रित्य विज्ञेयः, विष्कम्भश्च पूर्वापरायतत्वमाश्रित्य विज्ञेय इति । भगवता एवमुक्ते गौतमः स्पष्टावबोधार्थ पुनः पृच्छति'तत्थ' इत्यादि । 'तस्थ' तत्र तस्यामेवंविधायां व्यवस्थायां 'को हेऊ' को हेतुः ? किं कारणम् अत्रोपपत्तिः का ? 'आहिए' आख्यातो भवता कथितः 'ति वएज्जा' इति वदेत् वदतु कथयतु हे-भगवन् । भगवानाह-'ता' इत्यादि । 'ता' तावत् 'अयण्णं' अयं लोकप्रसिद्धः खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपोद्वीपः मध्य जम्बूद्वीपः 'जाव' यावत्-यावत्पदेन जम्बूद्वीपस्य तत्परि धेश्च सर्व वर्णनमत्र वाच्यम्, तत्र प्रतिपादितपरिमितो जम्बूद्वीपः 'परिक्खेवेणं' परिक्षेपेण परि धिना 'पण्णत्ते' प्रज्ञप्तः । ततः किम् ? इत्याह-'ता जयाणं' इत्यादि । 'ता' तावत् 'जयाण' यदा खलु 'मूरिए' सूर्यः 'सव्वभतरं मंडलं उवसंकमित्ता चारं चरइ' सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, 'तया णं' तदा खलु उद्धीमुहकलंबुयापुप्फसंठिया'ऊर्ध्वमुखकलम्बुका पुष्पसंस्थिता 'तावक्खेत्तसंठिई' तापक्षेत्रसंस्थितिः 'आहिया' आख्याता 'ति वएज्जा' इति वदेत् स्वशिष्येभ्यः । सा कीदृशी ? इत्याह-'अंतो संकुडा बाहिं वित्थडा' अन्तः संकुचिता बहिहिस्तृता, पुनश्च-'अंतो वहा बाहिं पिहुला, अन्तो वृत्ता अर्धवलयाकारा, बहिः पृथुलाविस्तीर्णा, पुनश्च-'अंतो अंकमुहसंठिया बाहिं सत्थियमुहसंठिया' अन्तः अङ्कमुखसंस्थिता, बहिः स्वस्तिकमुखसंस्थिता, अर्थः प्राग्वत् 'दुहओ पासेणं' द्विघातः पार्श्वेण उभयपार्श्वे इत्यर्थः 'तीसे' तस्याः तापक्षेत्रसंस्थितेः 'तहेव जाव सव्वबाहिरिया चेव बाहा' तथैव पूर्वोक्तवदेव यावत् सर्वबाह्या चैव बाहा, यावत् पदेन 'दुवे बाहाओ' इत्यादि पूर्वोक्त मालापः सर्वो