SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ चन्द्रमाक्षप्तिसूत्रे वादिनः 'एवं' एवं पूर्वोक्तप्रकारेण 'आहेसु' आहुः-कथयन्ति ।८। एषामष्टानां व्याख्या पूर्व चन्द्रसूर्यसंस्थितिप्रकरणे कृता तत्रतोऽवगन्तव्या, नात्र प्रपश्चितेति, ‘एगे पुण' एके नवमाः पुनः 'एवं' एवं-वक्ष्यमाणप्रकारेण 'आहे' आहुः-कथयन्ति-'ता' तावत् 'जस्संठिए जम्बूहीबेदीवे' यत्संस्थितः यत्संस्थानवान् जम्बूद्वीपो द्वीपः 'तस्संठिया' तत्संस्थिता 'तावक्खेत्तसंठिई' तापक्षेत्रसंस्थितिः ‘पण्णत्ता' प्रज्ञप्ता, 'एगे एवमासु' एके एवं पूर्वोक्तप्रकारेण आहुः कथयन्ति ९, एगे पुण' एके दशमाः पुनः ‘एवमाहंस' एवं वक्ष्यमाणप्रकारेण आहुः - 'ता' तावत् 'जस्संठिए भारहे वासे' यत्संस्थितः भारत वर्ष भरतक्षेत्रं 'तस्संठिया' तत्संस्थिता 'तावक्खेत्तसंठिई पण्णत्ता' तापक्षेत्रसंस्थितिः प्रज्ञप्ता, 'एगे एमाहंसु' एके दशमा एवं पूर्वोक्त प्रकारेण आहुः १० 'एवं' एवम् अनेन प्रकारेण आलापककरणेन 'उज्जाणसंठिया' उद्यानसंस्थिता ११, 'निज्जाणसंठिया' निर्याणसंस्थिता, निर्याणनाम पुरस्य निर्गमनमार्गः, तत्संस्थिता १२, 'एगो णिसधसंठिया' एकतो निषधसंस्थिता, एकतो रथस्यैकस्मिन् पार्वे निनितरां यः सहते स्वपृष्टभागे समारोपितं भारमिति निषधः-बलीवर्दः, तस्येव एकतः पार्श्वसंलग्नबलीवर्दस्येव संस्थानं यस्याः सा तथा १३, 'दुहओ णिसधसंठिया' द्विधातो निषधसंस्थिता, रथस्य उभयपार्श्वयोर्यो बलीवर्दी तयोरिवसंस्थानं यस्याः सा तथा १४, ‘सेयणगसंठिया' सेचनकसंस्थिता सेचनकः श्येनकः पक्षिविशेषः बाज इति प्रसिद्धः, तस्येवसंस्थितं संस्थानं यस्या सा तथा, 'तावक्खेत्तसंठिई' तापक्षेत्रसस्थितिः 'पण्णत्ता' प्रज्ञप्ता 'एगे एवमासु' एके एवमाहुः, १५ । 'एगे पुण' एके षोडशाः प्रतिपत्तिवादिनः पुनः ‘एवं' एवं वक्ष्यमाणप्रकारेण 'आईसु' आहुः कथयन्ति 'ता' तावत् 'सेयणगपिट्ठसंठिया' सेचनकपृष्टसंस्थिता श्येनक पक्षिपृष्टभागस्य संस्थानसमाना 'तावक्खेत्तसंठिई' तापक्षेत्रसंस्थितिः 'पण्णत्ता' प्रज्ञप्ता 'एगे एवमासु' एके षोडशा एवं पूर्वोक्तप्रकारेण आहुः कथयन्तीति ॥१६॥ तदेवं प्रदर्शिताः षोडशापि प्रतिपत्तयो मिथ्या रूपाः, ता निराकृत्य भगवान् स्वमतं प्रदर्शयति-'वयं पुण' इत्यादि । 'वयं पुण' वयं पुनः वयं तु 'एवं' एवं-वक्ष्यमाणप्रकारेण 'वयामो' वदामः कथयामः, तदेवाह-'उद्धीमुह' इत्यादि । 'ता' तावत् 'उद्धीमुहकलंबुया पुप्फसंठिया' उर्ध्वमुखकलम्बुकापुष्पसंस्थिता उर्वीभूतमुखस्य कलम्बुका नाम नालिका बनस्पतिविशेषः तस्य पुष्पस्येव संस्थितं संस्थानं यस्या सा तभाविधा तापक्षेत्रसंस्थितिः प्रज्ञप्ता । सा कीदृशी भवेदित्याह-'अंतो संकुडा बाहिं वित्थडा' अन्तः संकुचिता बहिर्विस्तृता, अन्तः मेरुदिशि, बहिर्लवणसमुद्रदिशि क्रमेण संकुचिता विस्तृता चेति । पुनश्च 'अंतो वट्टा' अन्तर्वृत्ता, अन्तर्मेरुदिशि वृत्तेति अर्धवलयाकारा अर्धगोलाकारा इत्यर्थः सर्वतोवृत्तमेरुस्थितान् त्रीन् द्वौ वा दशभागान् अभिव्याप्य तस्या व्यवस्थितत्वात् 'बाहिं पिहुला' बहिः पृथुला बहिः लवणसमुद्रदिशि विस्तारमुपगता। एतदेव पुनः स्पष्टयति 'अंतो अंकमुह
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy