SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका प्रा०३ सू० १ चन्द्रसूर्ययोः प्रकाशक्षेत्र निरूपणम् १४७ षष्ट्यधिकानि षट् त्रिंशच्छतानि (३६६०) जम्बूद्वीपस्य पश्चचक्रवालभागानां कल्पिताः सर्वे भागाः । तथाच कोष्ठकम् - सर्वाभ्यन्तरमण्डले द्वयोः सूर्ययो प्रकाशभागाः अन्धकारभागाः सर्वमे - २१९६ १४६४ ३६६० सम्प्रति दिवस रात्रिप्रमाणमाह - ' तया णं' इत्यादि । 'तया णं' तदा - पूर्वोक्त परिमितप्रकाशान्धकारसमये स्खल्लु 'उत्तमकद्वपत्ते' उत्तम काष्ठा प्राप्तः परमप्रकर्षसंपन्नः 'उक्कोस ए' उत्कर्षकः सर्वगुरुः 'अट्ठारसमुहुत्ते दिवसे भवइ' अष्टादशमुहूर्ती दिवसो भवति, 'जहण्णिया' जधन्यिका सर्वलध्वी 'दुवालसमुडुत्ता राई भवई' द्वादशमुहूर्ता रात्रिर्भवति । अथ सर्वबाह्यमण्डलवक्तव्यतामाह-- ' ता जया णं' इत्यादि । 'ता' तावत् 'जया णं' यदाखल 'एए दुबे सरिए' एतौ द्वौ सूर्यो 'सव्वबाहिरं मंडळं उवसंकमित्ता चारं चरंति' सर्वबाह्यं मण्डलम् उपसंक्रम्य चारं चरतः 'तया णं' तदा खलु 'जंबुद्दीवस्स दीवस्स' जम्बूद्वीपस्य द्वीपस्य 'दोणि चक्कभागे' द्वौ चक्रभागौ चक्रवालभागौ ' ओभासेंति ४' अवभासयतः उद्योतयतः, तापयतः, प्रकाशयतः । अथ - एकैकसूर्यमधिकृत्याह'ता एगे वि' इत्यादि । 'ता' तावत् 'एगे वि सूरिए' तयोर्मध्ये एकोऽपि सूर्य:- एकः सूर्यः अपि वाक्यालङ्कारे 'एगं पंचचक्कभागं एकं पश्चमं चक्रवालभागं द्वात्रिंशदधिकसप्तशत (७३२) भागरूपम् 'ओभासेइ ४' अवभासयति, उद्द्योतयति, तापयति, प्रकाशयति । एवम् - 'एगेबि सूरिए' एकोsपरोऽपि सूर्यः 'एगं चक्कभागं' एकं पश्चमं चक्रवालभागं द्वात्रिंशदधिकसप्तशत (७३२) रूपम् 'भोभासेइ ४' अवभासयति, उद्योतयति, तापयति, प्रकाशयति । अयं भावः - सर्वबाह्यमण्डले द्वयोः सूर्ययोश्चारसमये तौ समुदितौ द्वौ सूर्यौ द्वौ चक्रवालभागौ चतुष्षष्ट्यधिक चतुर्दशशत (१४६४) भागरूपौ प्रकाशयतः, अतः सर्व बाह्यमण्डलचारसमये चतुष्षष्ट्यधिक चतुर्दशशत (१४६४) भागपरिमितः उद्घोतभागो दिवसरूपो लभ्यते शेषास्त्रयश्चक्रवालभागाः षण्णवत्यधिकैकविंशतिशत (२१९६) भागपरिमितोऽन्धकारभागो रात्रिरूपो लभ्यते, तथा चैवं सर्वेषामुद्योतान्धकारभागानां संमेलने भवन्ति षष्ट्यधिकानि षट् त्रिंशच्छता नि (३६६०) जम्बूद्दीपभागाः ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy