________________
चन्द्रप्राप्तिसूत्रे
कोष्ठकम्
सर्वबाह्यमण्डले द्वयोः सूर्ययोः
प्रकाशभागा:
१४६४
मध्यमण्डलेषु द्वयशीत्यधिकैकशत (१८२)संख्यकेषु प्रातमण्डलं प्रतिसूर्यनिष्क्रमणकाले भागद्वयस्य हानिः प्रवेशकाले च भागद्वयस्य वृद्धि
अन्धकारभागाः
२१९६
सर्वमेलने --
३६६०
विज्ञेयेति ।
अयमाशयः- सर्वाभ्यन्तरमण्डलचारसमये प्रत्येकसूर्यस्याष्टानवत्यधिकदशशत (१०९८) भागपरिमितोद्योतभागसद्भावात् द्वयोः सूर्ययोः षण्णवयधिकैकविंशतिशत (२१९६) भागपरिमित उद्योतः, शेष चतुष्षष्टयधिकचतुर्दशशत (१४६४) भागपरिमितोऽन्धकारभागयोर्मीलने षष्टयधिकानि षट् त्रिंशच्छतानि (३६६०) भागा जम्बूद्वीपस्य पञ्च चक्रवालसम्बन्धिनो लभ्यन्ते सर्व बाह्यमण्डलचारसमये च एतद्विपरीतं भवति, यथा-द्वयोः सूर्ययोःचतुष्षष्टयधिकचतुर्दशशत (१४६४) भागपरिमित उद्योतभागः, षण्णवत्यधिकैकविंशतिशत (२१९६) भागपरिमितोऽन्धकारभागो भवति, द्वयोर्मीलने च भवन्ति षष्टयधिकानि षट्त्रिंशच्छतानि (३६६०) भागाः जम्बूद्वीपस्येति सर्व पूर्व कोष्ठकद्वये प्रदर्शितमिति ।।
मथ रात्रिदिवसप्रमाणमाह-'तया णं' इत्यादि । 'तया गं' तदा पूर्व प्रदर्शितपरिमितप्रकाशान्धकारसमये खलु 'उत्तमकट्ठपत्ता' उत्तमकाष्ठाप्राप्ता परमप्रकर्षसंपन्ना 'उक्कोसिया' उत्कर्षिका सर्वोत्कृष्टा सर्वगुर्वीत्यर्थः 'अट्ठारसमुहुत्ता राई भवइ' अष्टादशमुहूर्ता रात्रिभवति, 'जहण्णए' जघन्यकः सर्वलघुः दुवालसमुहुत्ते दिवसे भवई' द्वादशमुहूर्तो दिवसो भवतीति ।
एवं द्वितीयमण्डलादारभ्य द्वयशीत्यधिकशततममण्डलपर्यन्तविचारणायामेवं ज्ञातव्यम्-सर्वबाह्यमण्डले यदा सूर्यश्चारं चरति तदा एकं सूर्यमधिकृत्य द्वात्रिंशदधिकसप्तशत (७३२) भागाएकस्य पञ्चमस्य चक्रवालस्य सम्बन्धिनः उद्योतस्य लभ्यन्ते, तथा-अष्टनवत्यधिकदशशत(१०९८) भागाः शेषाः चतुश्चक्रवालसम्बन्धिनः अन्धकारस्य लभ्यन्ते । सर्वाभ्यन्तरमण्डल चारसमयेऽष्टनवत्यधिकदशशत (१०९८) भागाः सार्धं कचक्रवालसम्बन्धिनो भवन्ति, एतेभ्यो सर्वबाह्यमण्डलगता द्वात्रिंशदधिकसप्तशत (७३२) भागाः शोध्यन्ते तदा शेषाः षट्पष्टधिकत्रिंशत (३६६) भागा न्यूना लभ्यन्ते । एषा न्यूनसंख्या त्र्यशीत्य-धिकैकशत (१८३) संख्यकेषु मण्डलेषु भवति ततोऽनेन (१८३) षट्पष्टयधिकत्रिशत (३६६) भागानां भागो हि यते तदा लभ्येते द्वौ भागौ। अनयोईयो र्भागयोर्हानिः प्रत्येकमण्डलेषु क्रमेण भवति । एवं सर्वाभ्यन्तरमण्डलात् सर्वबाह्यमण्डलं प्रतिसूर्यस्य गमनसमये प्रतिमण्डलं भागद्वयमुद्योतस्य