SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिसूक चक्रभागसंस्थितः माख्यातः ! 'ति वएज्जा' इति वदेत् वदतु कथयतु । एवं गौतमेन प्रश्ने कृते भगवानाह–'ता जयाणं' इत्यादि । 'ता' तावत् 'जया णं' यदा खलु 'एए' एतौ प्रवचनवेतृणां प्रसिद्धौ ‘दुवे सरिए' दो समुदितौ सूर्यो 'सयभंतरंमंडलं उवसंकमित्ता चारं चरति' सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरतः 'तया गं' तदा खलु 'जंबुद्दीबस्स दोवस्स' जम्बूद्वीपस्य द्वीपस्य 'तिण्णि पंच चक्कभागे' त्रीन् पञ्च चक्रभागान् पञ्चचक्रवालभागान् 'ओमासेति' अवभासयतः 'उज्जोति' उद्योतयतः 'तवेंति' तापयतः, 'पगासेंति' प्रकाशयतः 'तं जहा' तद्यथा-तथाहि-'एगे वि सूरिए' एकोऽपि सूर्यः एकस्तु सूर्यः 'एग दिवड्डे' एकं परिपूर्णमेकं द्वय, द्वितीयाधै च साश्रूकमित्यर्थः 'पंच चक्कभार्ग' पञ्च चक्रभाग पञ्चमं चक्रवालभागम् अयं भावः-एकं पञ्चमं चक्रबालभागं द्वितीयस्य पञ्चमस्य चक्रबालभागस्यार्धेन सहितम् 'ओभासेइ उज्जोवेइ तवेइ पगासेइ' अवभासयति उद्घोतयति तापयति प्रकाशयति । 'एगे वि' सूरिए' एकस्तु अपरः सूर्यः 'एग दिवइढं' एकं तदन्यं परिपूर्णमेकं द्वयर्घ द्वितीयमधं च सार्धमेकमित्यर्थः पंच चक्कभार्ग' पञ्चमं चक्रवालभागम् 'ओभासेई' ४, अवभासयति उद्योतयति तापयति प्रकाशयति । अयं भावः अनयोईयोः सूर्ययोः प्रकाशितभागमीलने परिपूर्ण भागत्रयं प्रकाश्यं भवति । अयमाशयः-जम्बूद्वीपगतानां पञ्चानां चक्रवालानां षष्टयधिकषट्शत्तोत्तरसहनत्रयभागाः(३६६०) कल्प्यन्ते, तस्य पञ्चभागकरणार्थ पश्चभिर्भागो हियते लब्धानि द्वात्रिंशदधिकानि सप्तशतानि (७३२) 'एग दिवढं' इति कथनात् इयं संख्या सार्धा क्रियते तदा जातमष्टानवत्यधिक सहस्रमेकम् (१०९८) ततः सर्वाभ्यन्तरमण्डले वर्तमान एकोऽपि सूर्यः षष्टयधिकषट्शतोचर सहस्रत्रय (३६६०) संख्यकानां भागानां मध्यात् अष्टानवत्यधिकैकसहस्र (१०९८) परिमितं भागम् अवभासयति । एवमपरोऽपि सूर्यः-अष्टानवत्याधिकैकसहस्र (१०९८) परिमितं भागम् अवभासयति, उभयोर्योगकरणे जातानि षण्णवत्यधिकानि एकविंशतिशतानि (२१९६)। एतत्परिमितभाग चक्रवाळप्रकाश्यमानं लभ्यते शेषं चतुष्षष्टयधिकचतुर्दशशत (१४६४) परिमितभागेऽन्धकारो लभ्यते, तदा च पञ्च चक्रवाळभागमध्यात् द्वौ चक्रवालभागौ रात्रिः, त्रयश्चक्रवालभागाः दिवसः । तथाहि-एकतोऽपि एकः पञ्चमो भागो द्वात्रिंशदधिकसप्तशत(७३२) भागा रात्रिः, अपरतोऽपि एकः पञ्चमो भागो द्वात्रिंशदधिकसप्तशत (७३२) भागा रात्रिः । द्वयोर्मीलने जातानि चतुष्षष्टयधिकानि चतुर्दशशतानि (१४६४), एतत्परिमितोऽन्ध. कारभागो लभ्यते । शेषाः षण्णवत्यधिकैकविंशतिशत (२१९६) भागाः। एतत्परिमितः प्रकाश भागो-दिवसो-लभ्यते, ततः सर्वेषामन्धकारभागानामुद्योतभागानां च संमेलने भवन्ति
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy