SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा० २-३ म०३ सर्वाभ्यन्तरे मण्डले सूर्यस्य प्रवेशः १४१ गच्छति चलति, 'तया णं तदा खलू 'इहगयस्स मणूसस्स' इहगतस्य मनुष्यस्य जातावेकवचनात् भरतक्षेत्रस्थितानां मनुष्याणां 'सीयालीसाए जोयणसहस्सेहि' सप्त चत्वारिंशता योजनसहनैः 'दोहि य तेवढेहिं जोयणसएहि' द्वाभ्यां च त्रिषष्टाभ्यां त्रिषष्टयधिकाभ्यां योजन शताभ्यां त्रिषष्टयधिक द्विशतयोजनैः 'एक्कवोसाए सठिभागेहिं जोयणस्स' एकविंशत्या षष्टि भागैर्योजनस्य (४७२६३ २५) 'रिए' सूर्यः 'चक्खुप्फास' चक्षुःस्पर्श दृष्टिगोचरतां 'इव्वमागच्छइ' हव्यमागच्छति शीघ्र प्राप्नोति, 'तया गं' तदा खलु उत्तमकट्ठपत्ते' उत्तमकाष्ठाप्राप्तः परमप्रकर्षता सम्पन्नः 'उक्कोसए' उत्कर्षकः सर्वोत्कृष्टः 'अट्टरसमुहुत्ते दिवसे भवई' अष्टादशमुहूर्तो दिवसो भवति, 'जहणिया' जघन्यिका सर्वलध्वी 'दुवालसमुहुत्ता राई भवई' द्वादशमुहूर्ता रात्रिभवति । एतच्च मुहूर्तगतिपरिमाणं दृष्टिपथप्राप्ततापरिमाणं च यत् पूर्वमेव प्रदर्शितं तत्तु सूर्यस्य सर्वाभ्यन्तरमण्डलान्निष्क्रमणप्रारम्भविषयकं प्रदर्शितम् अत्र तु सूर्यस्य सर्वबाह्यमण्डलात्सर्वाभ्यन्तरमण्डलप्राप्तिविषय कमिति नात्र पुनरुक्तेः शंकाऽपीति । अथोपसंहार माह 'एस गं दोच्चे छम्मासे एतत् खलु द्वितीयं षण्मासम् 'एस णं एतत् खलु दोच्चस्स छम्मासस्स' द्वितीयस्य षण्मासस्य 'पज्जबसाणे' पर्यवसानम्-अन्तिममहोरात्रम् 'एस गं' एष खलु 'आइच्चे संवच्छरे' आदित्यः संवत्सरः सम्पूर्णो जातः । ‘एस गं' एतत् खलु 'आइच्च संवच्छरस्स' आदित्यसंवत्सरस्य 'पज्जवसाणे' पर्यवसानम्-समाप्तिदिवसोऽस्ति ॥ इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यानैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहुछत्रपति कोल्हापुरराजप्रदत्त जैनशास्त्राचार्य" पदभूषित-कोल्हापुर राजगुरु बालब्रह्मचारी-जैनशास्त्राचार्य-जैनधर्मदिवाकर श्रीघासीलालवति-विरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिकाटीकायां द्वितीयप्राभृतस्य तृतीयं प्रामृतप्राभृतं समाप्तम् ॥२-३॥ द्वितीयं मूलप्राभृतं समाप्तत् ॥२॥ ॥ श्रीरस्तु ॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy