SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ चद्रप्रज्ञप्तिसूत्रे शेष पञ्चविंशतिरेकषष्टिभागाः (२५)एतञ्च पञ्चाशीतियोंजनानि नवषष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः (८५-६७) इत्येवं रूपात् ध्रुवराशेरपकृष्यते जातानि पश्चात् त्र्यशीतियोजनानि, द्वाविंशतिः षष्टिः भागा योजनस्य, एकस्य षष्टि भागस्य सत्काः पञ्चत्रिंदेकषष्टिभागाः (८३- २५ । अत्र यत् षट्त्रिंशत् २ एकषष्टिभागाः प्रोक्तास्ते परमार्थतः कलया न्यूना लभ्यन्ते इति प्रागेवोक्तम्, तच्च कलान्यूनत्वं प्रतिमण्डलं भवत् २ यदा द्वयशीत्यधिकशततमे मण्डले एकत्र पिण्डितं क्रियते तदा अष्टषष्टिरेकषष्टि भागा लभ्यन्ते । तत एतेऽपि भूयः प्रक्षिप्यते ततो जायते-त्र्यशीतिर्योजनानि त्रयोविंशतिः षष्टिभाग योजनस्य, एकस्य षष्टिभागस्य सत्काः द्विचत्वारिंशदेकषष्टिभागाः(८३५/-) इति । एतेषु सर्वाभ्यन्तरानन्तरद्वितीयमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं संयोज्यते, तच्चसप्तचत्वारिंशत्सहस्राणि एकोनाशीत्यधिकमेकं शतं च योजननाम् सप्तपञ्चाशत् षष्टिः भागा योजनस्य, एकस्य षष्टिभागस्य सत्का एकोनविंशतिरेकषष्टिभागाः (४७१७९ - इत्येवंरूपमस्ति । एतस्य संयोजने भवति यथोक्तं सर्वाभ्यन्तरे मण्डले दृष्टिपथप्राप्तता परिमाणम्-सप्तचत्वारिंशत् सहस्राणि त्रिषष्टयधिकं शतद्वयं योजनानाम्, एकविंशतिश्च षष्टि भागा योजनस्य (४७२६३ -)इति । एतच्चाने सूत्रकारः स्वयं प्रदर्शयिष्यतीति । एवं दृष्टिपथप्राप्ततायां कतिपयेषु मण्डलेषु पञ्चाशीति योजनानि सातिरेकाणि, अतनेषु चतुरशीति योजनानि, पर्यन्ते यथोक्ताधिकसहितानि त्र्यशीतिं योजनानि अभिवर्धयन् २ तावद् वक्तव्यं यावत् सूर्यः सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति । तदेव सूत्रे दर्शयति 'त' जया णं' इत्यादि । 'ता' तावत् 'जया गं' यदा खलु 'रिए' सूर्यः 'सव्वभंतरं मंडलं' सर्वाभ्यन्तरं मण्डलम् ‘उवसंकमित्ता 'चारं चरइ' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'पंचयोजणसह स्साई' पञ्चयोजनसहस्राणि 'दोण्णि य एकावण्णे जोयणसयाई द्वे एकपञ्चशते योजनशते एकपञ्चाशदधिके द्वे शते योजननाम् ‘एगणतीसं च सद्विभागे जोयणस्स' एकोनत्रिंशतं चष ष्टिभागान् योजनस्य (५२५१-२९, एगमेगेणे' मुहुत्तेणं एकैकेन मुहूर्तेन 'गच्छइ'
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy