SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्र हूतैः ऊना, द्वादशमुहूतौ दिवसो भवति चतुभिरेकष्टिभागमुहूतरधिकः । एवं खलु पतेन उपायेन प्रविशन् सूर्यः तदनन्तरात् तदनन्तरं मण्डलात् मण्डलं संक्रामन् २ अष्टादश अष्टादशषष्टिभागान् योजनस्य पककस्मिन् मण्डले मुहूर्तगति निर्वर्धयन् २ सातिरेकाणि पञ्चाशीति २ योजनानि पुरुषच्छायाम् अभिवर्धयन् २ सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु पञ्चयोजनसम्राणि द्वे च एकपञ्चाशते योजनशते एकोनत्रिशतं च षष्टिभागान् योजनस्य एकैकेन मुहूर्तेन गच्छति तदा खलु इहगतस्य मनुष्यस्य सप्तचत्वारिंशता योजनसहनैः द्वाभ्यां च त्रिषष्टाभ्यां योजनशताभ्यां एकविंशत्या च षष्टिभागैर्योजनस्य सूर्यः चक्षुःस्पर्श हव्यमागच्छति तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षक: अष्टादशमुहत्तों दिवसो भवति, जघन्यिका द्वादशमुहूर्वा रात्रिर्भवति । एतत् खलु द्वितीयं षण्मासम् । एतत् स्खल द्वितीयस्य षण्मासस्य पर्यवसानम् । एष खलु आदित्यः संवत्सरः । पतत् खलु आदित्यसंवत्सरस्य पर्यवसानम् । सू० ३। द्वितीयप्राभृतस्य तृतीयं प्रामृतप्राभृतं समाप्तम् ।२-३। द्वितोयं प्राभृतं समाप्तम् ॥२॥ व्याख्या- 'से' सः 'पविसमाणे' प्रविशन् सर्वबाह्यमण्डलात् सर्वाभ्यन्तरमण्डलाभिमुखं गच्छन् 'दोच्चं छम्मासं' द्वितीय दिवसवृद्धिरूपं षण्मासम् 'अयमाणे' अयन् प्राप्नुवत् ,पंढमंसि अहोरत्तंसि' प्रथमेऽहोरात्रे 'बाहिराणंतरं मंडलं' बाह्यानन्तरं सर्व बाह्यमण्डलादनन्तरं सर्वाभ्यन्तरगमनमार्गस्थितं मण्डलम् 'उपसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति । 'ता' तावत् 'जया णं' यदा खलु 'बाहिराणंतरं मंललं' बाह्यानन्तरं मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तया णं' तदा स्खलु 'पंचजोयणसहस्साई' पश्चयोजनसहस्राणि पश्चसहस्रयोजनानि 'तिण्णि य च उत्तराई जोयणसयाई त्रीणि च चतुरुत्तराणि योजनशतानि सत्ता पण्णं च सट्रि भाष जो यणस्य सप्तपञ्चाशतं च षष्टिभागान् योजनस्य (५३०४५७) एगमेगेणं मुहुत्तणं गच्छई' एकैकेन मुहूर्तेन गच्छति । तथाहि-अत्रमण्डले परि धिपरिमाणं--सप्तनवत्यधिक द्विशतोत्तराष्टादशसहस्राधिक त्रिलक्ष योजनानि (३१८२१७) । ततो ऽस्याः संख्यायाः प्रागुक्तयुक्त्या षष्टया भागो ह्रियते तदा लब्धं यथोक्तं मुहूर्तगतिपरिमाणम् (५३०४-७) अथ दृष्टिपथप्राप्ततापरिमाणमाह- तयाणं' इत्यादि । 'तया णं' तदा खलु 'इहगयस्स मणूसस्स' इहापि पूर्ववज्जातावेकवचनं तत इहगताना भरतक्षेत्रस्थितानां मनुष्याणाम् 'एक्कतीसाए जोयण सहस्सेहि' एकत्रिंशता योजनसहत्रैः 'नवहि य सोलमुत्तरेहिं जोयणसएहि' नवभिश्च षोडशोत्तरैर्योजनशतैः, 'एगणचत्तालीसाए सद्विभागेहिं जोयणस्स' एकोन चत्वारिंशताषष्टिभागैयोजनस्य 'सट्ठिभागं च एगद्विहा छेत्ता' षष्टिभागं च एकषष्टिधा छित्त्वा
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy