SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिप्रकाशिका टीका प्रा०२ सू० ३ सर्वाभ्यन्तरे मण्डले सूर्यस्य प्रवेशः १३७ तत्सत्तैः ‘सट्टीए चुण्णियाभागेहि' षष्ट्या चूर्णिकाभागैः (३१९१६ २०६९) 'सरिए सूर्यः 'चक्खुप्फासं' चक्षुः स्पर्श 'हव्वमागच्छ' हव्यमागच्छति-चक्षुर्गोचरी भवतीत्यर्थः । कथमिति दर्श्यते-सूर्यस्यास्मिन् मण्डले प्रथमेऽहोरात्रे संचरणसमये द्वाभ्यां मुहूत्तैकष्टिभागाभ्यामधिको द्वादश मुहूत्र्तो दिवसो भवति, ततो द्वादशानां दिवसमुहूर्तानाम) क्रियये तदा जाताः षड् मुहूर्ताः द्वयोर्मुहूर्तकभागयोरर्धको मुहूर्त कषष्टिभागश्च ततः षड् मुहूर्ताः एकश्च मुहूर्त कषष्ठिभागः (६) इति जातम् । तत एषां सर्वेषामेकषष्टिभागानयनार्थमेतान् षडपि मुहूर्तान् एकषष्ट्या गुणयित्वा एकएकषष्टिभागस्तत्राधिकत्वेन प्रक्षिप्यते ततो जातानि सप्तषष्टयुत्तराणि त्रीणि शतानि (३६७) । ततः सर्वबाह्यमण्डलादग्रेतने द्वितीये मण्डले यत्परिधिपरिमाणम्-सप्तनवत्यधिकद्विशतोत्तराष्टादशसहस्राधिकत्रिलक्षयोजनसंख्यकम्-(३१८२९७) तत् एभिर्दिवसमु इ‘िनामेकषष्टिभागैः सप्तषष्टयुत्तरत्रिशत (३६७) संख्यकैर्गुण्यते जाता एकादश कोटयः, अष्टषष्टिलक्षाः, चतुर्दशसहस्राणि, नवनवत्यधिकानि नवशतानि च (११, ६८, १४, ९९९) अस्याः संख्याया एकषष्टिगुणितया षष्टया षष्टयधिक षट् त्रिशच्छतरूपया (३६६०) भागो हियते । हृते च भागे लब्धानि षोडशोत्तरनवशताधिकानि एकत्रिंशत् सहस्राणि (३१९१६)। उद्धरन्ति, शेषाणि एकोनचत्वारिंशदधिकानि चतुर्विशतिशतानि (२४३९) । एभिर्योजनानि नायान्ति ततोऽस्य षष्टिभागकरणार्थमेकषष्टया भागो हियते, लब्धा एकोनचत्वारिंशत् षष्टिभागाः, शेषा स्थिताः षष्टिः ते च एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः, तथा चाङ्कतः-(३१९१६-१७) इत्यायातं--यथोक्तं चक्षुःपथप्राप्तताविषयं परिमाणम् 'तया णं' तदा खल सूर्यस्य सर्वबाह्यानन्तराक्तिनद्वितीयमण्डलचारकाले खलु 'अट्ठारसमुहुत्ता' अष्टादशमुहूर्त्ता 'राई भवइ' रात्रिर्भवति, सा 'दोहिं एगसट्ठिभागमुहुत्तेहिं' दूभ्यामेकषष्टिभागमुमुहूर्त्ताभ्याम् 'ऊणा' ऊना हीना भवति, । 'दुवालसमुहुत्तो दिवसो भवई' द्वादशमुहतों दिवसो भवति, स च 'दोहिं एगसहिभागमुहुत्तेहिं द्वाभ्यामेकष्टिभागमुहर्ताभ्याम् 'अहिए' अधिको भवति । तथा 'से' सः 'पविसमाणे' प्रविशन् सर्वाभ्यन्तरमण्डलाभिमुखं गच्छन् सर्वबाह्यान न्तराक्तिन द्वितीयस्मात् मण्डलादने गच्छन्नित्यर्थः 'सूरिए' सूर्यः 'दोच्चंसि अहोरतसि' द्वितीयेऽहोरात्रे 'बाहिरं' बाह्यं बाह्यमार्गप्राप्तत्वाद् बाह्यं तच्चं मंडलं' तृतीयं सर्वबाह्यमण्डलमाश्रित्य तृतीयस्थानगतं मण्डलम् 'उवसंकमित्ता चारं चरइ' उ५ 'कम्य चारं चरति । 'ता' तावत् 'जया णं' यदा खलु 'सरिए' सूर्यः 'बाहिरं तच्चं मंडलं' बाह्यं तृतीयं मण्डलम् 'उवसंकमित्ता ६०६१
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy