SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ " ३१० चन्द्रशप्तिप्रकाशिका टीका प्रा०२-३ सू०५ पूर्वोक्तविषये स्वसिद्धांतप्रतिपादनम् १३३ रेकषष्टिभागयोर्मीलने जाताः षट्त्रिंशत् । एते चाष्टादश एकषष्टिभागाः निश्चयनयेन कलया न्यूना भवन्ति न तु परिपूर्णाः, किन्तु व्यवहारनयमाश्रित्य पूर्व परिपूर्णतया बिवक्षिताः । तच्च कलया न्यूनत्वं प्रतिमण्डलं भवद् भवद् यदा द्वयशीत्यधिकशततमे मण्डले एकत्र पिण्डित क्रियते तदा एकषष्टिभागाः षष्टिसंख्यका हीना भवन्ति, एतदपि व्यवहारत एव ज्ञातव्यम् निश्चयतस्तु किश्चिद धिका अपि एकषष्टिभागा हीयन्ते, इत्यवसेयम् । तत एते अष्टषष्टिभागाः अपनीयन्ते, तदपनयने च पश्चाशीतियोजनानि नवषष्ठिभागा योजस्य । एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः (८५- ) इति जातम् ,, तत एतत् सर्वबाह्यमण्ड-लात् पूर्वस्थितात् एकाशीत्यधिकशततममण्डलगतात् -एकत्रिंशत्सहस्राणि षोडशोत्तराणि नवशतयोजनानि, एकोनचत्वारिंशत् षष्टिभागा योजनस्य, एकस्य च षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः ) इत्येवं रूपात् दृष्टिपथप्राप्ततापरिमाणात् शोध्यते ततो जायते यथोक्तं सर्वबाह्ये मण्डले दृष्टिपथप्राप्ततापरिमाणम् तच्च सूत्रकारः स्वयमेवाग्रे कथयिष्यति । तत एवं पुरुषच्छायायां दृष्टिपथप्राप्तनारूपायां द्वितीयादिषु केषुचिन्मण्डलेषु चतुरशीनि २ किश्चिन्यूनानि योजनानि उपरितनेषु तु मण्डलेषु अधिकानि अधिकतराणि योजनानि हापयन्-हापयन् तावदवसेयं यावत् सूर्यः सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति । अथाग्रे मूलं व्याख्यायते-'ता जयाणं' इत्यादि। _ 'ता' तावत् ' जया णं' यदा खलु — सूरिए' सूर्यः ‘सवबाहिरं मंडलं उवसंकमित्ता चारं चरइ' सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति 'तया णं' तदा स्खलु 'पंच जोयणसहस्साई' पंचयोजनसहस्राणि 'तिन्नि य पंचुतराई जोयणसयाई त्रीणि च पश्चोत्तराणि योजनशतानि ‘पण्णरस य सट्ठिभागे जोयणस्स' पञ्चदश च षष्टिभागान् योजनस्य (५३०५१५.) 'एगमेगेणं मुहुत्तेण' एकैकेन मुहूर्तेन 'गच्छइ' गच्छति चलति । तत्कथमित्याह-अस्मिन् सर्वबाह्ये मण्डले परिधिपरिमाणं त्रीणि लक्षाणि अष्टादशसहस्राणि, पञ्चदशोत्तराणि त्रीणि शतानि च (३१८३१५) ततोऽस्य पूर्वोक्तयुक्त्या षष्टया भागो हियते, ततो लभ्यते यथोक्तं पञ्चाधिकशतत्रयोत्तराणि पञ्चसहस्राणि पञ्चदश चैकषष्टिभागा योजनस्य (५३०५-१) मुहूर्तगतिपारमाणमिति । 'तथा णं' तदा खल 'इह गयस्स मणूसस्स' इह गतस्य मनुष्यस्य जातावेकवचनत्त्वात्-भरतक्षेत्रगतानां मनुष्याणामित्यर्थः 'एक्कतीसाए जोयणसहस्सेहि' एकत्रिंशता योजनसहजैः 'अहिं एक्कतीसेहिं जोयणसएहि'
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy