________________
चन्द्रनप्तिप्रकाशिका टोका प्रा०२-३ सू० २ पूर्वोक्तविषये स्वसिद्धांतप्रतिपादनम् १२१ ष्टादशाष्टादशषष्टिभागवृद्धिमाश्रित्यर्थः ‘णिक्खममाणे' निष्क्रामन् अभ्यन्तरान्मण्डलात् सर्वबाह्यमण्डलाभिमुखं गच्छन् 'सूरिए' सूर्यः 'तयाणंतराओ तयाणंतरं' तदनन्तरात् तदनन्तरं 'मंडलाओ मंडलं मण्डलान्मण्डलम् एकस्मान्मण्डलाद् द्वितीयं मण्डलं 'संकममाणे२' संक्रामन् संक्रामन् 'अट्ठारस २ सट्ठिभागे जोयणस्स' भष्टादशाष्टादशषष्टिभागान् योजनस्य व्यवहारतः परिपू
र्णान् निश्चयतः किश्चिन्यूनान् ‘एगमेगे मंडले' एकैकस्मिन् मण्डले 'मुहुत्तगई' इत्यत्र सप्त. म्यर्थे द्वितीया तेन मुहूर्तगतौ परिवुइटेमाणे' २' परिवर्धयन् परिवर्धयन् 'चुलसीई' चतुरशति 'सीयाई' इति शीतानि किञ्चिन्यून न योजनानि, किञ्चिन्न्यूनचतुरशीतियोजनानि 'पुरिस छायं' अत्रापि सप्तम्यर्थे द्वितीया तेन पुरुषच्छायायां, पुरुषछाया पुरुषस्य छाया यतो भवति, सा, प्रस्तावात् प्रथमत उदयमानस्य सूर्यस्य दृष्टिपथप्राप्तता गृह्यते तस्यामेकै कस्मिन् मण्डले किञ्चिदूनचतुरशीति योजनानि 'निव्वुड्ढेमाणे२' निर्वर्धयन् २ हापयन् २ हीनानि कुर्वन्नित्यर्थः सूर्यः 'सव्वबाहिरं मंडलं' सर्वबाह्यं मण्डलं त्र्यशीत्यधिकशततमं मण्डलम् उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति । अत्रायं भावः
पूर्व किञ्चिन्यूनानि चतुरशीतियोजनानि' इत्युक्तं तत्स्थूलदृष्टया प्रोक्तम् , परमार्थतस्तु तदेवम-त्र्यशीतिर्योजनानि, त्रयोविंशतिश षष्टिभागा योजनस्य, एकस्य षष्टिभागस्य एकषष्टिधा छिन्नस्य सत्का द्विचत्वारिंशद्भागाश्च (८३-२३।६०-४२।६१) एषा संख्या दृष्टिपथप्राप्तताविषये विषयहानी ध्रुवराशि र्जातः । ततो यस्य यस्य मण्डलस्य दृष्टिपथप्राप्ततां ज्ञातुमिच्छद्भिः सर्वाभ्यन्तरमण्डलगततृतीयमण्डलादारभ्य अर्थात् तृतीयं मण्डलं प्रथमं परिकल्प्य ततोऽग्रे तत्तन्मण्डलसंख्यया षट्त्रिंशत्संख्या गुणनीया, तथा च-सर्वाभ्यन्तरमण्डलात्ततीये मण्डले एकेन, चतुर्थे द्वाभ्यां पञ्चमे त्रिभिः-यावत् सर्व बाह्यमण्डले द्वयशीत्यधिकेन शतेन गुण्यते । गुणनाद् यद् आगतं तद् ध्रुवराशिमध्ये प्रक्षेपणीयम् प्रक्षिप्ते सति यद् जायते तत् पूर्वमण्डलगतदृष्टिपथः प्राप्ततामध्यादपकृष्यते । अपकृष्टे या संख्या जाता तत्प्रमाणा तस्मिन् विवक्षिते मण्डले दृष्टिपथप्राप्ता ज्ञातव्या । अथ त्र्यशीतियोजनानीत्यादिरूपो ध्रुवराशिः कथमुत्पद्यते ! अत्रोच्यते
अत्र सर्वाभ्यन्तरमण्डले दृष्टिपथप्राप्तता परिमाणम् त्रिषष्टयधिकशतद्वयोत्तराणि सप्तचत्वारिंशत्सहस्राणि, तदुपरि योजनस्य एकविंशतिः षष्टिभागाश्च (४७२६३-२१।६०), एतच्च अष्टादशमुहूर्त्तदिवसाधैं नवमुहूर्नगम्यं परिमाणं वर्त्तते तत एकस्मिन् मुहूर्तेकषष्टिभागे पर्वोक्तदृष्टिपथप्राप्तताविषयकं परिमाणं कियदागच्छतीति विचारणायां मुहूर्तानामेकषष्टिभागकरणार्थं नवमुहूर्त्ता एकषष्टया गुण्यन्ते जातानि एकोनपञ्चाशदधिकानि पञ्चशतानि (५४९) मुहू क षष्टिभागाः । एतैर्भागो हियः लब्धाः षडशीतिर्योजनानि पञ्चषष्टिभागा योजनस्य, एकस्य च षष्टिभागस्य एकषष्टिधा छि नस्य सत्काश्चतुर्विशतिभागाः-( ८६-५।६०२४)
६१
१७