SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १२८ चन्द्रप्रज्ञप्तिसूत्रे प्यन्ते ततो भवति यथोक्तमस्मिन् तृतीये मण्डले सूर्यस्य मुहूर्तगतिपरिमाणम्-(५२५२५/६०) इति । 'तया णं' तदा खलु ‘इहगयस्स मणूसस्स' इहगतस्य मनुष्यस्य जातावेकवचनत्वात् भरतक्षेत्रगतानां मनुष्याणामित्यर्थः 'सीयालीसाए जोयणसहस्सेहि' सप्तचत्वारिं शत्ता योजनसहनैः 'छण्णउइए य जोयणेहिं' षण्णवत्या च योजनैः 'तेत्तीसाए य सद्विभागेडिं जोयणस्स' त्रयस्त्रिंशता च षष्टिभागैर्योजनस्य ‘सद्विभागं च एगसद्विदा छेत्ता' एक षष्टिभागम् एकषष्टिधा छित्त्वा 'देहिं चुण्णियाभागेहिं' द्वाभ्यां चूर्णिकाभागाभ्यां (४७०९६ ३३/६० । २.६१ चू) 'मरिए' सूर्यः 'चक्खुप्फासं' चक्षुःस्पर्श 'हव्वमागच्छई' शीघ्रमागच्छति सूर्यः पूर्वप्रदर्शितयोजनादिना दुरतश्चक्षुर्गोचरी भवतीतिभावः। तदेव दर्शयति । ____ अस्मिन् तृतीये मण्डले यदा सूर्यश्चारं चरति तदा योजनस्य चतुर्मुहूर्तेकषष्टिभागहीनोऽष्टादशमुहूत्तों दिवसी भवति, अस्या द्विमुहकषष्टिभागहीना नवमुहूर्ता भवन्ति । नव मुहूर्तान् एकषष्टया गुणयित्वा द्वावेकषष्टिभागौ तेभ्योऽपनीयेते तदा जाताः सप्तचत्वारिंशदुत्तराणि पश्च शतानि एकषष्टिभागाः (५४७) तदनु अनेन राशिना तृतीयमण्डलपरिधिपरिमाणं गुण्यते, तच्च पञ्चविंशत्युत्तरैकशताधिक पञ्चदशसहस्रोत्तराणि त्रीणि लक्षाणि (३१५१२५) अस्याः संख्यायाः पूर्वसम्पादितैः सप्तचत्वारिंशदुत्तरपञ्चशतै (५४७) र्गुणने जाताः सप्तदशकोट्यः त्रयोविंशतिलक्षाणि त्रिसप्ततिः सहस्राणि पञ्चसप्तत्यधिकानि त्रीणि शतानि च (१७, २३७३, ३७५) । एषाम् एकषष्टयाः षष्टिसंख्यया गुणने यानि लब्धानि षष्टयधिकानि षट् त्रिंशच्छतानि (३६६०) तैर्भागो हियते तदा लब्धानि षण्णवत्यधिकानि सप्तचत्वारिंशत्सहस्राणि (४७०९६), शेषमुद्धरति पश्चदशधिके द्वेसहने (२०१५)। तत इयं संख्या भाजकान्न्यूनत्वाद् योजनानि न लभ्यन्तेऽतः षष्टिभागानयनार्थम् 'एगसट्ठिहा छेत्ता' इति मूलसूत्रवचनात् छेदराशिरेकषष्टियिते, तेन भागे हृते लब्धास्त्रयस्त्रिंशत् षष्टिभागा (३३।६०), एकस्य च षष्टिभागस्य सत्को द्वावेक षष्टिभागौ (२०६१), एष एव चूर्णिका भागः । एवं गणितरीत्या लब्धं मूलसूत्रोक्तम्-४७०९६. ३३।६०-२।६१चू०) सूर्यस्य भरतक्षेत्रस्थमनुष्याणां दृष्टिपथप्राप्तता विषयकं परिमाणमिति । _ 'तया णं' तदा तृतीय मण्डलगतस्य सूर्यस्य चक्षुःपथप्राप्तिकाले स्खलु 'अद्वारसमुहत्तो दिवसो भवइ' अष्टादशमुहूर्तो दिवसो भवति किन्तु सः 'चउहि एगसद्विभागमुहुत्तेहिं ऊणे' चतुभिरेकषष्टिभागमुहूर्तरूनः हीनो भवति तथा 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहूर्त्ता रात्रिभवति, सा च 'चउहिं एगसहिभागमुहुत्तेहि' चतुभिरेकषष्टिभागमुहूर्तेः 'अहिया' अधिका भवति सूर्यस्य निष्क्रमणकाले दिवसस्य हान्याः रात्रेश्च वृद्धेनियमसद्भावात् । अथाग्रेतनानां चतुर्थादिमण्डलानां विषयेऽतिदेशमाह -'एवं' इत्यादि । 'एवं खलु' एवम्-अनेन रीत्या खलु 'एएणं उवाएणं' एतेन पूर्वप्रदर्शितेन उपायेन विधिना सूर्यस्य प्रतिमुर्तगतिपरिमाणस्या
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy