________________
चन्द्राप्तिप्रकाशिकाटीका प्रा०२-३ सू०२ पूर्वोक्तविषये स्वसिद्धांतप्रतिपादनम् १२७ ७९), शेषे षण्णवत्यधिक चतुःशतोत्तराणि त्रीणि सहस्राणि (३४९६) अवतिष्ठन्ते । ततोऽस्माद् योजनानि न समायान्ति, अतः षष्टिभागानयनाथै सूत्रे 'सद्विभागं च एगद्विहा छेत्ता' इति कथितं, तद्वचनादत्र छेदराशिरेकषष्टिप्रिंयते, अनेन भागे हृते लभ्यन्ते सप्तपञ्चाशत् षष्टि भागाः (५७/६०) एकस्य च षष्टिभागस्य सम्बन्धिन एकोनविंशतिरेकषष्टिभागाः (१९।६१) इति । जातानि (४७१७९ ५७/६०-१९६१ चर्णिका भागः) इति । एवं संप्राप्त मूलसूत्रोक्तं सूर्यस्य चक्षुःपथप्राप्तताविषयक परिमाणमिति ।
'तया णं' तदा पूर्वोक्तप्रमाणैर्योजनैः द्वितीयमण्डलगतस्य सूर्यस्य चक्षुःप्राप्तिसमये खलु 'अट्ठारसमुहुत्तो दिवसो भवई' अष्टादशमुहूत्तों दिवसो भवति किन्तु सः 'दोहिं एगसहिभागमुहुत्तेर्हि ऊणे' द्वाभ्यामेकषष्टिभागमुहूर्त्ताभ्यामूनः- हीनो भवति, 'दुवालसमुहत्ता राई भवइ' द्वादशमुहूर्त्ता रात्रिर्भवति. सा च 'दोहि एगसद्विभागमुहुत्तेहिं अहिया' द्वाभ्यामेकषष्टिभागमुहूर्ताभ्यामधिका ।
अथ तृतीयमण्डलवक्तव्यतामाह-'से निक्खममाणे' इत्यादि । से 'सः निक्खममाणे निष्क्रामन् सर्वाभ्यन्तरमण्डलात्सर्वबाह्यमण्डलाभिमुखं गच्छन् 'सरिए' सूर्यः 'दोच्चंसि अहोरत्तंसि' नवसंवत्सरस्य द्वितीयेऽहोरात्रे 'अभितरं' आब्भ्यन्तरसम्बन्धिनं 'तच्चं मंडलं' तृतीयं मण्डलम् 'उवसंकमित्ता चारं चरइ' उपमंक्रम्य चारं चरति । 'ता' तावत् 'जया ण' यदा खलु 'मूरिए' सूर्यः 'अभितरं तच्चं मंडलं' अभ्यन्तरं तृतीय मण्डलम् 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु पंच पंचजोयणसहस्साई' पञ्च पञ्च योजन सहस्राणि 'दोण्णि य बावण्णे जोयणसयाई द्वे च द्विपञ्चाशदधिके योजनशते 'पंच य सहि भागे जोयणस्स' पञ्च च षष्टिभागान् योजनस्य द्विपञ्चाशदधिकशतद्वयोत्तरेपञ्चसहस्रयोजनानि योजनस्य षष्टिभागपञ्चकसहितानि (५२५२ ५/६०) 'एगमेगेणं मुहुत्तेण' एकैकेन मुहूर्तेन प्रतिमुहूर्त्तमित्यर्थः 'गच्छइ' गच्छति चलति ।
कथमेतदित्याह-अस्मिन् सर्वाभ्यन्तरमण्डलात्तृतीये मण्डले मण्डलपरिधिः पञ्चदशसहस्रोत्तराणि त्रीणि लक्षाणि, तदुपरि पञ्चविंशत्यधिकं शतमेकं च (३१५१२५) अस्याः संख्या. याः पूर्वोक्तयुक्त्या षष्ट्या भागे हृते लभ्यतेऽस्य तृतीयस्य मण्डलस्य मुहूर्तगतिपरिमाणम् (५२५२ ५/६०) इति । अथवा अस्मात्प्राक्तनमण्डलमुहत्तगतिपरिमाणादस्मिन् तृतीये मण्डले मुहूर्तगतिपरिमाणविचारे प्राक् प्रतिपादितरीत्या अष्टादश एकषष्टिभागा योजनस्य अधिका लभ्यन्ते ततस्ते पूर्वमण्डलमुहूर्तगतिपरिमाणे (५२५१ ४७/६०) अधिकत्वेन प्रक्षि