SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १२६ चन्द्रश प्रति सूत्रे ततो भवति यथोक्तं अस्मिन् द्वितीयमण्डले मुहूर्त्तगतिपरिमाणं सप्तचत्वारिंशत्षष्टिभागसहितम् ४७ ६० (५२५१- -) ' तया णं' तदा द्वितीयमण्डलचारसमये खलु 'इहगयस्स मणूसस्स' इहगतस्य भ‍ तक्षेत्रस्थितस्य मनुष्यस्य जातावेकवचनत्वात् भरतक्षेत्रस्थितानां मनुष्याणामित्यर्थः, 'सीयालीसाए' जोयणसहस्से हिं' सप्तचत्वारिंशता योजन सहस्रैः 'अउणासीए य जोयण सरणं' एकोनाशीतेन योजनशतेन एकोनाशीत्यधिकेन योजनशतेन (१७९) सत्तावण्णाए सद्विभागेहिं जोयणस्स' सप्तपञ्चाशता षष्टिभार्गैर्योजनस्य, 'सद्विभागं च' षष्टिभागमेकं च 'एगट्टिदा छेत्ता' एकषष्टिधा छित्वा एकषष्टिछेदराशिं कृत्वा तेन छित्त्वेत्यर्थः तत्सम्बन्धिभिः 'अउणावीसाए चुण्णिया भागेहिं ' ५७ १९ एकोनविंशत्या चूर्णिकाभागैः- (४७१७९ 'रिए' सूर्यः 'चक्खुफासं' चक्षुः६० ६१ स्पर्शम् 'हवं' शीघ्रम् 'आगच्छइ' आगच्छति प्राप्नोति दृष्टिगोचरीभवतीत्यर्थः । कथमेतदवसीयते ? तदेवाह - 1 अस्मिन् द्वितीये मण्डले सूर्यस्य महूर्त्तगतिपरिमाणं पूर्वप्रदर्शितम् एकपञ्चाशदधिकशतद्वयोत्तरपञ्चसहस्रयोजनानि सप्तचत्वारिंशच्च षष्टिभागा योजनस्य (५२५१ ४७/६१ ) इति. अत्र द्वितीयमण्डले सूर्यस्य संचरणसमये दिवसोऽष्टादशमुहूर्त: द्वाभ्यां मुहत् कषष्टिभागाभ्यां चहीनो भवति निष्क्रमणकाले प्रतिमण्डलं दिवसरात्र्योः मुहूर्त्ते कषष्टिभागद्वयस्य क्रमेण हानिवृद्धि नियमसद्भावात्, दिवसस्य हानिः रात्रेश्च वृद्धिर्भवतीतिभावः । ततो दिवस प्रमाणस्यार्ध क्रिय तस्यार्धं नवमुहूर्त्ताः एकेन मुहूर्तैकषष्टिभागेन हीनाः, तत एषामेकषष्टिभागकरणार्थं नवमुहूर्त्ता एकषष्ट्या गुण्यन्ते जातानि एकोनपञ्चाशदधिकानि पञ्चशतानि ( ५४९ ) दिवसप्रमाणः एकेन एकषष्टिभागेन होनोऽतोऽस्मात् एकं रूपं निष्कास्यते ततो जातानि - अष्टचत्वारिंशदधिकानि पञ्चशतानि (५४८ ) । ततोऽस्य द्वितीयमण्डलस्य सप्तोत्तरशताधिक पञ्चदशसहस्रोतराणि त्रीणि लक्षाणि (३१५१०७) परिधिपरिमाणमिति । एषा संख्या अष्टचत्वारिंशदधिक पञ्च शतैः (५४८) गुण्यते, तेन जातः - एककः, सप्तकः, द्विकः, षट्कः, सप्तकः, अष्टकः, षट्कः, त्रिकः, षट्कः इति सप्तदश कोटयः, षड्विंशतिर्लक्षाः, अष्टसप्ततिः सहस्राणि षट् शतानि तदुपरि षट् त्रिंशच्च - (१७२६७८६३६) । तत्र एकषष्टिः षष्टया गुण्यते जातानि षष्ट्यधिकषट्शतोत्तराणि त्रीणि सहस्राणि (३६६० ) । अनया संख्यया पूर्वोक्तसंख्याया भागो हियते, हृते च भागे लब्धानि एकोनाशीत्यधिकशतोत्तराणि सप्त चत्वारिंशत्सहस्राणि योजनानाम् (४७१
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy