SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ न्द्राप्तिप्रकाशिका टीका प्रा०२-३ सू०२ पूर्वोक्तविषये स्वसिद्धांत प्रतिपादनम् १२५ rary ० गतं यथोक्तं सूर्यस्य दृष्टि पथप्राप्तताविषयकं परिमाणम् (१७२६३ ११) इति । 'तया णं' तदा तस्मिन् सूर्यस्य सर्वाभ्यन्तरमण्डलसंचरणसमये खल 'उत्तमकट्ठपत्त' उत्तमकाष्ठाप्राप्तः परमप्रकर्षप्राप्तः उक्कोसए' उत्कर्षकः सर्वोत्कृष्टः 'अद्वारसमुहुत्ते दिवसे भवई' अष्टादशमुहत्तों दिवसो भवति, 'जहणिया' जघन्यिका सर्वलध्वी 'दुवालस मुहुत्ता राई भवई' द्वादशमुहूर्ती रात्रिर्भवतीति । ___अथ सूर्यस्य सर्वाभ्यन्तरमण्डलान्निष्क्रमणवक्तव्यतामाह-'से निक्खममाणे' इत्यादि । 'से' सः सर्वाभ्यन्तरमण्डलचारगतः 'निक्खममाणे' निष्क्रामन् सर्वाभ्यन्तरमण्डलात्सर्वबाह्यमण्डलाभिमुखं गच्छन् 'सरिए सूर्यः 'णवं संवच्छरं' नवं संवत्सरं दिवसहानिरात्रिवृद्धिरूपम् 'अय माणे' अयन् प्राप्नुवन् ‘पढमंसि अहोरत्तंसि' प्रथमेऽहोरात्रे 'अभितराणंतरं' अभ्यन्तरानन्तरं सर्वाभ्यन्तरमण्डलादग्रेतनं 'मंडलं' द्वितीय मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति । 'ता' तावत् 'जया णं' यदा खलु 'सूरिए' सूर्यः 'अभितराणंतरं मंडलं' अभ्यन्तरादनन्तरं स्थितं मण्डलं द्वितोयमण्डलम् 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति 'तया णं'तदा खलु "पंच पंच जोयणसहस्साई' पञ्चपञ्चयोजनसहस्राणि 'दोणिय एकावण्णे जोयणसयाई' द्वे एकपञ्चाशते योजनशते 'सीयालीसं' च सहिभागे जोयणस्स' सप्तचत्वारिंशतं च षष्टिभागान् योजनस्य एकपञ्चाशदधिकशतद्वयोत्तरपञ्चसहस्रयोजनानि योजनस्य सप्तचत्वारिंशत्यष्टिभागसहितानि (५२५१-3) एगमेगेणं मुहुत्तेण' एकैकेन मुहूर्तेन सूर्यः 'गच्छइ' गच्छति चलति कथमेतदवसीयते ! इत्याह-सर्वाभ्यन्तरमण्डलादनन्तरे द्वितीये मण्डले परिधिपरिमाणं सप्तोत्तरशताविकपञ्चदशसहस्रोत्तराणि त्रीणि लक्षाणि (३१५१०७) व्यवहारतः परिपूर्णानि, निश्चयेन तु किञ्चिन्यूनानि, ततश्च प्रागुक्तयुक्त्याऽस्य षष्टया भागो ह्रियते, ततो लभ्यते यथोक्तमस्मिन् द्वितीये मण्डले सूर्यस्य मुहूर्तगतिपरिमाणम् (५२५१७)। अथवा एवमपि ज्ञायते-पूर्वोक्त सर्वाभ्यन्तरमण्डलपरिधिपरिमाणात् (३१५०८९) अस्य द्वितीयमण्डलस्य परिधिपरिमाणे व्यवहारतः परिपूर्णाष्टादशयोजनानि वर्धन्ते, तदा जायन्ते (३१५१०७, निश्चयनयमतेन किश्चिन्यूनानि, ततश्च अष्टादशानां योजनानां षष्टयाभागे हृते लभ्यन्तेऽष्टादशषष्टिभागा योजनस्य, ततश्च षष्टिभागाः षष्टिभागेष्वेव प्रक्षिप्यन्ते इति नियमात् एतेऽष्टादशघष्टिभागाः प्राक्तनमण्डलगतमुहूर्त्तपरिमाणगतेषु (५२५१-१.) एकोनत्रिंशत्यष्टिभागेषु प्रक्षिप्यन्ते
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy