SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ चन्द्र प्रज्ञप्तिसूत्रे ५०८९) । एषा भाज्यराशिसंख्या पूर्वप्रदर्शितेन षष्टिसंख्य केन (६०) भाजकराशिना विभज्यते भाज्यराशेर्भाजकराशिना भागो हियते, भागे हृते लब्धं यथोक्तं सूर्यस्य एक मुहूर्त्तगम्यक्षेत्रम् - एकपञ्चाशदधिकद्विशतोत्तरपञ्च सहस्रयोजन परिमितं जनस्यैकोनत्रिंशत्षष्टिभागाधिकम् १२४ ६० (५२५१ इति । अथ सर्वाभ्यन्तरे मण्डले चारं चरन् उदयमानः सूर्य इहगतानां मनुष्याणां कियत्परिमिते क्षेत्रे व्यवस्थितो दृष्टिगोचरी भवतीति प्रदर्शयन्नाह - ' तया णं' इत्यादि । ' तया णं' तदा सर्वाभ्यन्तरमण्डल संचरणसमये खलु 'इहगयस्स' इहगतस्य भरतक्षेत्रस्थितस्य 'मणूस ' मनुष्यस्य अत्र जातावेकवचनं तेन इहगतानां मनुष्याणामित्यर्थः 'सीयाली साए जोयणसहस्सेहिं' सप्तचत्वारिंशता योजनसहस्रैः सप्तचत्वारिंशत् सहस्रयोजनैः (४७०००) 'दोहि य तेहिं जोयणसएहिं' द्वाभ्यां च त्रिषष्टाभ्यां योजनशताभ्यां त्रिषष्ट्यधिकद्विशतयोजनः (२६३) ‘एकवीसाए य सद्विभागेहिं जोयणस्स' एकविंशत्या च षष्टिभागैर्योजनस्य (६) योजनस्यैकविंशतिषष्टिभागयुक्तैः त्रिषष्ट्यधिकशतद्वयोत्तरसप्तचत्वारिंशत्सहस्रयोजनैरित्यर्थः (४७२६३–२१) ‘स्वरिए’ सूर्यः 'चक्खुप्फार्स' चक्षुः स्पर्श 'इच्छं' इति शीघ्रम् ‘आगच्छड्’ आगच्छति प्राप्नोति दृष्टिगोचरीभवतीत्यर्थः । अस्योपपत्तिमाह - इह दिवसार्द्धेन यावत्परिमितं क्षेत्र व्याप्तं भवति तावत्परिमिते क्षेत्रे व्यवस्थितः सूर्य उपलभ्यते, यदा सूर्यः सर्वाभ्यन्तरे मण्डले वारं चरति तदाऽष्टादशमुहूर्ती दिवसो भवति, अष्टादशानामर्द्धे कृते लभ्यन्ते नवमुहूर्त्ताः सर्वा - भ्यन्तरे मण्डले चारं चरन् सूर्य एकपञ्चाशदधिकद्विशतोत्तरपञ्चसहस्रयोजनानि योजनस्यैकोन 9 २९ त्रिंशत् षष्टि भागाश्च (५२५१६०) एकैकेन मुहूर्तेन गच्छतीति भगवता पूर्वे प्रतिपादितम् एषा संख्या दिवसस्यार्द्धरूपैर्नवभिर्मुहूर्त्तेर्गुण्यते ततः समायाति यथोक्तं सूर्यस्य दृष्टिगोचरबिषयकं परिमाणमिति । गणितप्रकारो यथा - एक पञ्चाशदधिकद्विशतोत्तर पञ्चसहस्रसंख्या - (५२५१) भर्गु जातानि एकोनषष्ट्यधिकशतद्वयोत्तर सप्तचत्वारिंशत् सहस्राणि - (४७२५९) ततश्च - एकोनत्रिंशत् षष्टिभागा नवभिर्गुण्यन्ते जातम् - एकषष्टयुत्तरं शतद्वयम् - (२६१) अस्य योजनानयनार्थं षष्ट्या भागो हियते लब्धाश्चत्वारः - ४, एते च पूर्वं संपादितायां संख्यायां (४७ ९ योज्यते, तदा जातं (४७२६३) शेषा एकविंशतिः (२१) षष्टिभागाः स्थिता इति समा
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy