________________
चन्द्राप्तिप्रकाशिका टीका प्रा०२-३ सू०२ पूर्वोक्तविषयेस्वसिद्धांतप्रतिपादनम् १२३ मण्डलं संक्रामन् २ अष्टादश २ षष्टिभागान् योजनस्य एकैकस्मिन् मण्डले मुहूर्त्तगतिम् अभिवर्धयन २ चतुरशीति सातिरेक योजनानि पुरुषच्छायां निर्वधयन् २ सर्वबाहा मण्डलम् उपसंक्रम्य चारं चरति । तावत् यदा खलु . सूर्यः सर्वबाह्य मण्डलमुपसंक्रम्य चारं घरति, तदा खलु पञ्च योजनसहस्राण त्रीणि च पञ्चोत्तराणि योजनशतानि पञ्चदश च षष्टिभागान् योजनस्य एकैकेन मुहूर्तेन गच्छति, तदा खलु इहगतस्य मनुष्यस्य एकत्रिंशता योजनसहौः अष्टभिः एकत्रिशता योजनशतैः त्रिंशता च षष्टिभागैः योनस्य सूर्यः चक्षुः स्पर्श हव्यमागच्छति, तदा खलु उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहूर्ता रात्रिर्भवति जघन्यकः द्वादशमुहूर्तों 'देवसो भवति । एतत् खलु प्रथमं षण्मासम् । पतत् खलु प्रथमस्य षण्मासस्य पर्यवसानम् । सूत्र २ ॥
व्याख्या-'वयं पुण' इति 'वयं पुण' वयं पुनः वयं तु ‘एवं' वक्ष्यमाणप्रकारेण 'वयामो' वदामः कथयामः, तदेव दर्शयति-'ता' तावत् 'साइरेगाई' सातिरेकाणि किञ्चिदधिकानि 'पंच पंच जोयणसहस्साई' पञ्च पञ्च योजनसहस्राणि पञ्चपञ्चसहस्रयोजनानि 'सरिए सूर्यः एगमेगेणं मुहुत्तेणं' एकैकेन मुहूत्र्तेन 'गच्छइ गच्छति । एवं भगवता प्रोक्ते गौतमोऽत्र हेतुं पृच्छति'तत्थ को हेऊ' तत्र सूर्यस्य एकैकाहूर्तपरिमितकालेन सातिरेकपच्चसहस्रयोजनगमने को हेतुः किं कारणं कोपपत्तिः ? 'इलि' इति 'वएज्जा' वदेत् हे भगवन् ! वदतु कथयतु । भगवान् तत्कारणं प्रदर्शयति -'ता' तावत् 'अयं ' अयं खलु 'जम्बुद्दीवे दीवे' जम्बूद्वीपो द्वोपः मध्यजम्बूद्वीपः ‘जाव परिक्खेवेणं पण्णत्ते' यावत्परिक्षेपेण प्रज्ञप्तः अत्र यावत्पदेन जम्बूद्वीपवर्णनं सर्व पठनीयं परिधिपरिमाणपर्यन्तमिति । 'ता' तावत् 'जया णं' यदा खलु 'सूरिए' सूर्यः 'सव्वब्भंतरं मंडलं' सर्वाभ्यन्तरं मण्डम् ‘उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तयाणं' तदा खलु ‘पंच २ जोयणसहस्साई' पञ्च पञ्च योजनसहस्राणि 'दोणि य एकावण्णे जोयणसयाई' द्वे च एकपञ्चाशद्योजनशते एकपञ्चाशदधिकद्विशतयोजनानि (५२५१) 'एगणतीसं च सद्विभागे जोयणस्स' एकोनत्रिंशतं च षष्टिभागान् योजनस्य (५२५१. एतावत्परिमितं क्षेत्रं सूर्यः ‘एगमेगेणं मुहुत्तेणं गच्छइ' एकैकेन मुहूत्तन गच्छति प्रत्येकं मुहूर्ते एतावत्परिमितं क्षेत्रं पारयनीति भावः । एतत्कथमुपलभ्यते । इति प्रदर्श्यतेभरतैरवतसम्बन्धिनौ द्वौ सूर्यो एकैकं मण्डलम् एकैकेन अहोरात्रेण परिसमापयतः, एकैकस्य सूर्यस्यैकैकाहोरात्रगमने वस्तुतो द्वाभ्यामहोरात्राभ्यां परिभ्रमणमाश्रित्य मण्डलपरिसमाप्तिभवति । द्वयोरहोरात्रयोः षष्टिर्मुहर्ता भवन्ति प्रत्येकाहोरात्रस्य त्रिंशन्मुहूर्तप्रमाणत्वात् । एषा षष्टिसंख्या भाज कराशित्वेन विज्ञेया, भायरा शिश्च मण्डलपरिधिपरिमाणसंख्या, मण्डलपरिधिपरिमाणं च सर्वाभ्यन्तरे मण्डले एकोननवत्यधिकपञ्चदशसहस्रोत्तराणि त्रीणि लक्षाणि-(३१