SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ११८ चन्द्र प्रज्ञप्तिसूत्रे " गच्छति, इति 'ते णं' ते खलु ' एवं ' एवम् अनेन वक्ष्यमाणाभिप्रायेण 'आहंसु' कथयन्ति, तमेव प्रकारमाह- 'ता' तावत् 'जया णं' यदा खलु 'सूरिए' सूर्य: 'सव्वन्भंतरं मंडलं' सर्वाभ्यन्तरं मण्डलम् 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरई' चारं चरति 'तया णं' तदा खलु ' दिवसराई तहेव' दिवस रात्री तथैव-: व - तथा च उत्तमकाष्ठाप्राप्तः उत्कर्षकः अष्टादशमुहूर्ती दिवसो भवति, जघन्यिका द्वादशमुहूर्त्ता रात्रिर्भवतीति, 'तंसि च णं दिवसंसि' तस्मिंश्च खलु दिवसे 'बावन्तरिं जोयणसहस्साईं ' द्वासप्ततियोजन सहस्राणि - द्वासप्तति सहस्त्रयोजन परिमितं तावखेते पण्णत्ते' तापक्षेत्र प्रज्ञप्तम् । तथाहि - एतेषां तृतीयानां मते सूर्यः प्रतिमुहूत्तै चतुःसहस्रयोजनानि गच्छति सर्वाभ्यन्तरमण्डले अष्टादशमुहूर्त्ता दिवसो भवति ततश्चाष्टादशमुहूर्त्ताश्चतुःसहसैर्गुण्यन्ते तदा भवति द्वासप्ततिसहस्रयोयनप्रमाणं ( ७२०००) तापक्षेत्रमिति, 'ता' तावत् 'जया णं' यदा खलु 'सूरिए' सूर्यः 'सन्चबाहिरं मंडल' सर्वबाह्यं मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'ताण' तदा खलु 'राईदियं तदेव' रात्रिन्दिवं तथैव तथा च उत्तम उत्कर्षिका अष्टादशमुहूर्त्ता रात्रिर्भवति, जघन्यक: द्वादशमुहूर्त्ता दिवसो भवति, 'तंसि च णं' तस्मिश्च द्वादशमुहूर्त्तपरिमिते खलु 'दिवसंसि' दिवसे 'अडयालीसं जोयणसहस्साईं' अष्टचत्वारिंशद्योजन सहस्राणि अष्टचत्वारिंशत्सहस्रयोजनपरिमितं 'तावखेत्ते पण्णत्ते' तापक्षेत्र प्रज्ञप्तम् । कथ मिति दर्शयति- एषां तृतीयानां मते सूर्यस्य गमनं प्रतिमुहूर्त्ते चतुश्चतुःसहस्रयोजनपरिमित मस्ति, सर्वबाह्यमण्डले च द्वादशमुहूर्त्तपरिमितो दिवसो भवति तेन चतुःसहस्र संख्याद्वादशभिर्गुण्यते तदा समायाति अष्टचत्वारिंशत्सहस्रयोजन परिमितं तापक्षेत्रम् अनेन प्रकारेण ते कथयन्ति ' तया णं' तदा खलु 'चत्तारि चत्तारि जोयणसहस्साई' चत्वारि चत्वारि योजन सहस्राणि 'सूरिए' सूर्य: ' एगमेगेणं मुहुत्तणं' एकैकेन मुहूर्तेन 'गच्छ इ' गच्छति । मध्यमध्य मण्डलेषु पूर्वोक्तरीत्या तत्तन्मण्डलगतं तापक्षेत्रं सूर्यस्य निष्क्रमणसमये प्रवेशसमये हान्या वृद्धचा चावसेयमिति एवं सूर्यो यदा सर्वबाह्य मण्डलाद् सर्वाभ्यन्तरमण्डलाभिमुखं गच्छति तदा मध्यमध्यमण्डल - संचरणसमये यस्मिन् यस्मिन् मण्डले यावत्परिमितं दिवसपरिमाणं भवति तत्तत्संख्यया चतुः सहस्राणां गुणने गुणनफलपरिमितमेव तत्तन्मण्डले तापक्षेत्रं भवति । अनेन क्रमेण गच्छन् सूर्यो यदा सर्वाभ्यन्तरमण्डलं प्राप्नोति तदा सर्वाभ्यन्तरमण्डले गते सूर्ये तदेव पूर्वोक्तं तदभिमतं ताप क्षेत्रप्रमाणं द्वासप्ततिसहस्रयोजनपरिमितमायातीति | ३ | " अथ चतुर्थप्रतिपत्त्याभिप्रायमाह - 'तत्थ णं' इत्यादि । ' तत्थ णं' तत्र तापक्षेत्रविषये स्खलु 'जे ते' ये ते चतुर्थास्तर्थान्तरीयाः ' एवं ' वक्ष्यमाणप्रकारेण 'आहंसु' कथयन्ति तदेवाह - 'छवि पंचविचत्तारि वि' षडपि पश्चापि चत्वार्यपि 'जोयणसहस्सा ई' योजन सहस्राणि षट् सहस्रयोजनान्यपि, पञ्चसहस्रयो जनान्यपि चतुःसहस्रयोजनान्यपि च ' सूरिए' सूर्यः 'एग -
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy