________________
चन्द्राप्तिप्रकाशिका टीका प्रा०२-३ सू०१ मण्डले २ प्रतिमुहूत्तं सूर्यक्ष्य गतेनिरूपणम् ११९ मेगेणं मुहुत्तेणं' एकैकेन मुहूर्तन 'गच्छइ' गच्छति, इति ये कथयन्ति 'ते' ते पूर्वोक्तरूपेण वक्तारः ‘एवं' एवम् अनेन वक्ष्यमाणेनाभिप्रायेण 'आईसु' आहुः-कथयन्ति तच्छ्रयताम्'ता' तावत् 'सरिए' सूर्यः 'उग्गमण मुहुत्तंसि' उद्गमनमुहूर्ते एवम् 'अत्थमणमुहुत्तंसि य' अस्तमयनमुहूर्ते च उदयकाले अस्तकाले चेत्यर्थः 'सिग्धगई भवई' शीघ्रगतिर्भवति ततः 'तया णं' तदा उदयास्तसमये खलु सूर्यः 'छ छ जोयणसहस्साई' षट् षड्योजनसहस्राणि 'एगमेगेणं मुहुत्तेणं' एकैकेन मुहूर्तेन गच्छइ' गच्छति, सूर्य उदयास्तकाले शीघ्रगतित्वेन एकस्मिन् मुहूर्ते षट्सहस्रयोजनपरिमितं क्षेत्रं पारयतीति भावः ततः पश्चात् 'मज्झिमं तावखेत्त' मध्यमं तापक्षेत्रं 'समासाएमाणे २' समासादयन् २ प्रापयन्२ 'सूरिए' सूर्यः मज्झिमगई भवई' मध्यमगतिर्भवति 'तया णं' तदा तस्मिन् काले खलु 'पंचपंचजोयणसहस्साई' पञ्चपञ्चयोजनसहस्राणि पञ्चपञ्चसहस्रयोजनानि 'एगमेगेणं मुहुत्तेणं' एकैकेन मुहूर्तेन 'गच्छई' गच्छति । तथा 'मझिम तावखेत्तं' मध्यमं तापक्षेत्रं 'संपत्ते' सम्प्राप्तो भवेत् तदा 'सूरिए' सूर्यः 'मंदगई भवई' मन्दगतिर्भवति 'तया णं' तदा खलु 'चत्तारि चत्तारि जोयणसहस्साई' चत्वारि चत्वारि योजनसहस्राणि चतुश्चतुःसहस्रयोजनानि 'एगमेगेणं मुहुत्तेगं गच्छई' एकैकेन मुहूर्तेन गच्छति, यदा सूर्यो मध्यमतापक्षेत्रेऽधिरूढो भवति तदा मन्दगतित्वेन एकैकस्मिन् मुहत्तं चतुश्चतुःसहस्रयोजनपरिमितमेव क्षेत्रं पारयितुं शक्नोति न ततोऽधिकमिति भावः ।
___ एवं भगवता कथिते सति गौतमः पृच्छति-तत्थ' तत्र सूर्यस्य एवं गमने 'को हेऊ' को हेतुः किं कारणम् 'तिवएज्जा' इति वदेत् तद्गतिकारणं कथयतु भगवन् !
एवं गौतमेन पृष्टे भगवान् तत्कारणं प्रतिपादयति-'ता अयं णं' इत्यादि । 'ता' तावत् 'अयं णं' अयं लोकप्रसिद्धः खलु 'जंबुद्दीवे दीवे' जम्बूद्वोपो द्वीपः मध्यजम्बूद्वीपः जम्बूद्वापस्य वर्णनं सर्वमत्र वाच्यम् , कियत्पर्यन्तम् ? इत्याह 'जाव परिक्खेवेणं पण्णगे' यावत् परिक्षेपेण प्रज्ञप्तः परिधिपर्यन्तं वाच्यम् । 'ता' तावत् 'जया णं' यदा खलु 'रिए' सूर्यः 'सव्वब्भर मंडलं' सर्वाभ्यन्तरं मण्डलम् ‘उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तया णं तदा खलु 'उत्तमकट्ठपने' उत्तमकाष्ठाप्राप्तः 'उक्कोसए' उत्कर्षकः 'अद्वारसमुहुत्ते दिवसे भवई' अष्टादशमुहत्तों दिवसो भवति 'जहणिया' जधन्यिका सर्वलध्वी 'दुवालसमुहत्ता राई भवई' द्वादशमुहर्ता रात्रिर्भवति । 'तं सि च णं' तस्मिन् च खलु पूर्वोक्तप्रमाणे 'दिससंसि' दिवसे 'एक्काणउई' एकनवतिं 'जोयणसहस्साई' योजनसहस्राणि एकनवतिसहस्रयोजनपरिमितं 'तावखेत्ते पण्णत्ते' तापक्षेत्रं प्रज्ञप्तम् ।