________________
चन्द्राप्तिप्रकाशिका टीको प्रा०२-३ सू०१ मण्डले २ प्रतिमुहूर्त सूर्यस्य गतेर्निरूपणम् १९७ चारं चरई' सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति 'तया गं' तदा खलु 'उत्तमकट्टपत्ते उक्कोसए' उत्तमकाष्ठाप्राप्त उत्कर्षकः सर्वोत्कृष्टः 'भट्ठारसमुहुत्ते दिवसे भवई' अष्टादश मुहत्तॊ दिवसो भवति 'जहणिया' जघन्यिका सर्वलध्वी 'दुवालसमुहुत्ता राई भवई' द्वादश मुहूर्ता रात्रिभवति, 'तंसि च णं दिवसंसि तस्मिंश्च खलु दिवसे अष्टादशमुहूर्तप्रमाणे 'नउई जोयणसहस्साई' नवति योजनबहस्राणि नवतिसहस्रयोजनपरिमितमित्यर्थः 'ताक्खेत्ते पण्णत्ते' तापक्षेत्रं प्रज्ञप्तम् कथमेतदित्याह-एषां मते सूर्यः एकैकेन मुहूर्तेन पञ्च पश्चसहस्रयोजनानि गच्छति सूर्यस्य सर्वाभ्यन्तरमण्डलसंचरणसमये दिवसः अष्टादशमूहूत्तों भवति ततः पञ्चसहस्रसंख्या अष्टादशभिर्गुण्यते तत आयाति तापक्षेत्रस्य यथोक्तं परिमाणं नवतिसहस्रयोजनपरिमित (९००००) तस्मिन् दिवसे, इनि एवमग्रे सूर्यस्य सर्वाभ्यन्तरमण्डलात् सर्वबाह्यमण्डलाभिमुखगमने मध्ये मध्ये प्रतिमण्डले दिवसपरिमाणस्य पञ्चसहस्रैर्गुणने तत्तन्मण्डलस्य दिवसस्य होनत्वेन हीनं हीनं तापक्षेत्रमायाति । एवं सर्वचाह्यमण्डल्लाभिमुखं संचरन् ‘जया णं' यदा खल 'सव्वबाहिरं मंडलं' सर्वबाह्यं मण्डलम् ‘उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति सर्वबाह्यमण्डले आयाति 'तया णं' तदा खलु 'उत्तमकट्ठपत्ता' उत्तमकाष्टाप्राप्ता परमप्रकर्षसम्पन्ना उक्कोसिया' उत्कर्षिका सर्वगुर्वी 'अट्ठारसमुहुत्ता राई भवई' अष्टादशमुहूर्ता रात्रिर्भवति 'जहण्णए' जघन्यकः सर्वलघुः 'दुवालसमुहुत्ते दिवसे भवड' द्वादशमुहूर्तों दिवसो भवति 'तंसि च णं' तस्मिश्च द्वादशमुहूर्तपरिमिते खलु 'दिवसंसि' दिवसे 'सद्विजोयण सहस्साई'षष्टियोजनसहस्राणि षष्टिसहस्रयोजनपरिमितं' 'तावखेत्ते पण्णत्ते' तापक्षेत्रं प्रज्ञप्रज्ञप्तम् । अत्रापि दिवसमुहूर्तसंग्यां द्वादशपरिमितां पञ्चसहस्रैर्गुणयित्वा यथोक्तपरिमाणं षष्टिसहस्रयोजनरूपं परिभावनीयम् तत एवाह-'तया णं' तदा खलु 'पंच पंच जोयणसहस्साई पञ्चपञ्चयोजनसहस्राणि 'सरिए' सूर्यः ‘एगमेगेणं मुहुत्तेणं गच्छई' एकैकेन मुहूर्तेन गच्छति अनेनाभिप्रायेण ते द्वितीयास्तीर्थान्तरीयाः सूर्यस्य एकैकमुहूर्तगम्यमार्ग पश्च पश्च सहस्रयोजनपरिमितं कथयन्तीति । एवं यदा सर्वबाह्यमण्डलात् सर्वाभ्यन्तरमण्डलाभिमुखं सूर्यो गन्तुमारभते तदा मध्ये मध्ये तत्तन्मण्डलगतदिवसमुहूर्त्तसंख्यायाः पञ्चसहस्रैर्गुणने तत्तन्मण्डलस्य ताप क्षेत्रं वृद्धित्वेनायाति, एवं यदा सर्वाभ्यन्तरं मण्डलं सूर्यः प्राप्नोति तदा यथोक्तं नवतिसहस्रयोजनपरिमितं द्वितीयतीर्थान्तरीयाभिमतं तापक्षेत्रं भवतीति ॥२॥
अथ भगवान् तृतीयप्रतिपत्त्यभिप्रायं प्रदर्शयति-'तत्थ गं' इत्यादि 'तत्थ णं' तत्र तापक्षेत्रविषये खलु 'जे ते' ये ते तृतीयास्तीर्थान्तरीयाः 'एवं' एवं वक्ष्यमाणप्रकारेण 'आहंसु आहुः कथयन्ति, तदेव दर्शयति-'चतारि चत्तारि जोयणसहस्साई' चत्वारि चत्वारि योजनसह स्राणि चतुश्चतुः सहस्रयोजनानि 'मरिए' सूर्यः ‘एगमेगेणं मुहुत्तण' एकैकेन मुहूर्तेन 'गच्छइ'