SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०२-१ सू०१ सूर्यस्य द्वितीयषण्मासाहोरात्रे क्षेत्रसंचारणम् १०७ सरिया' द्वौ सूर्यो 'उत्तिटुंति' उत्तिष्ठतः उद्गच्छतः, तत्रैको भारतः सूर्यो दक्षिणपौरस्त्ये मण्डलचतुर्भागे, अपर ऐरवतः सूर्यश्च उत्तरपौरस्त्ये मण्डलचतुर्भागे उद्गच्छति, एवं क्रमेण द्वावपि सूर्यो तत्र तत्र स्थाने उदयं प्राप्नुत इतिभावः 'ते णं, ता खलु द्वौ सूर्यो यथाक्रमम् 'इमाई' इमो 'दाहिणुत्तराई' दक्षिणोत्तरौ जंबुद्दीवभागाई' जम्बद्वीपभागौ 'तिरियं करेंति' तिर्यक् कुरुतः प्रकाशयतः । अयमाशयः-दक्षिणपौरस्त्ये मण्डल चतुर्भागे भारतः सूर्य उद्गत्य तिर्यक् परिभ्रमन् मेरोदक्षिणभागं प्रकाशयति, उत्तरपाश्चात्ये मण्डलचतुर्भागे ऐरवतः सूर्य उद्गत्य तिर्यक् परिभ्रमन् मेरोरुत्तरभाग प्रकाशयतीति, 'द्वीकरित्ता' कृत्वा जम्बूद्वीपस्य दक्षिणोत्तरभागौ प्रकाश्य 'पुरथिमपच्चत्थिमाई' पौरस्त्यपाश्चात्यौ 'जंबुद्दीवभागाई' जम्बूद्वीपभागौ जम्बूद्वीपस्य पूर्वपश्चिमभागौ पूर्वपश्चिमभागद्वयं 'तमेव राओ' तस्यामेव रात्रौ कुरुतः तत्तदिवसस्य रात्रिभागौ कुरुतः जम्बूद्वीपस्य दक्षिणोत्तरभागयोः सूर्यद्वयस्य संचरणसमये पूर्वपश्चिमभागे रात्रि र्भवति, तदा नैकोऽपि सूर्यः पूर्वभागं पूर्वपश्चिमभागं वा प्रकाशयितुं शक्यतेऽतस्तदा पूर्वपश्चिमजम्बूद्वीपभागे रात्रि भतीति भावः । द्वौ सूयौं दक्षिणोत्तरभागयोस्तियकरणानन्तरं पूर्वपश्चिमभागौ तिर्यक् कुरुत इतिक्रमप्रदर्शनार्थ 'करित्ता' इत्युच्यते । पुनश्च 'ते णं' तो खलु द्वावपि सूर्यो दक्षिणोत्तरभागदिवससमाप्त्यनन्तरम् 'इमाई' इमौ प्रसिद्धौ ‘पुरस्थिमपच्चत्थिमाइं पौरस्त्यपाश्चात्यौ पूर्वपश्चिमरूपौ 'जवुद्दीवभागाइं' जम्बूद्वीपभागौ 'तिरियं करेंति' तिर्यक् कुरुतः पूर्वपश्चिमभागौ प्रक शयतः । अयं भावः-मेरोरुत्तरभागे ऐरवतः सूर्यस्तिर्यक् परिभ्रम्य तत्पश्चात् मेरोरेव पूर्वदिशि तिर्यपरिभ्रमति, भारतः सूर्यश्च पूर्व मेरोदक्षिणभागे तिर्यक्परिभ्रम्य तत्पश्चात् मेरोः पश्चिमभागे तिर्यपरिभ्रमतीति । 'करिता' कृत्वा जम्बूद्वीपपूर्वपश्चिमभागौ तिर्यक् कृत्वेत्यर्थः 'दाहिणुत्तराई' दक्षिणोत्तरौ 'जंबुद्दीबभागाई' जम्बूद्वीपभागौ जम्बूद्वीपस्य दक्षिणभागम् उत्तरभागं च 'तामेव राओ' तस्यामेव रात्रौ कुरुतः । अयं भावः-यदा द्वौ सूर्यो क्रमेण.पूर्वपश्चिमभागौ प्रकाशयतस्तदा दक्षिणभागे उत्तरभागे च रात्रिर्भवेत् , सूर्ययोः पूर्वपश्चिमभागसंचरणसमये उत्तरदक्षिणभागयोरेकोऽपि सूर्यः प्रकाशं न करोतीति । एवं 'ते णं' तो खलु सूर्यो 'इमाई' इमौ पूर्वप्रदर्शितौ दाहिणुत्तराई दक्षिणोत्तरौ, तथा 'पुरथिमपच्चत्थिमाइं य' पौरस्त्यपाश्चात्यौ च 'जंबुद्दीवभागाई' जम्बूद्वीपभागौ 'तिरियं करेंति' तिर्यक् कुरुतः प्रकाशयतः 'करित्ता' कृत्वा जम्ब्द्वीपस्य दक्षिणोत्तरभागौ पूर्वपश्चिमभागौ च क्रमेण प्रकाश्य 'जंबुद्दीवस्स दीवस्स' जम्बूद्वीपस्य द्वीपस्य ‘पाईणपडिणायय-'उदीचीणदाहिणाययाए' प्राची प्रतीच्यायतोदीचीदक्षिणायतया पूर्वात पश्चिमपर्यन्तमायतया दीर्घया उत्तगत् दक्षिणपर्यन्तमायतया दीर्घया 'जीवाए' जीवया जीवाः प्रत्यञ्चा तत्सदृशत्वात् जीवा तया जीवया दवरिकयेत्यर्थः 'मंडलं' सूर्यमण्डलं 'चउव्वीसएण सपणं' चतुर्विशत्यधिकेन शतेन 'छेत्ता' विभज्य मण्डलस्य चतुर्विशत्यधिकसंख्यकान् भागान्
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy